________________
यतिशिक्षोपदेशद्वारम्
२३३ ततस्त्वं प्रथममेवाजावदज्ञानो मा भव, किंतु सावधानो भवेति तात्पर्यार्थः ||१३.५।।
[३४०] जानेऽस्ति संयम-तपोभिरमीभिरात्मन्
नस्य प्रतिग्रहभरस्य न निष्क्रयोऽपि । किं दुर्गतौ निपततः शरणं तवास्ते ?,
सौख्यं च दास्यति परत्र किमित्यवेहि ? ||१३.६ ।। धनवि.-अथ प्रत्यक्षेण प्रतिदिनानुष्ठेयमपि तपःसंयमादि बहु सातिचारम'किञ्चित्करमित्युपदिशति -
'जाने' इति, हे आत्मन् ! अहमेवं जाने-मन्ये, तदेव ज्ञानं प्रकटीकरोतिअमीभिः-मनःशुद्धिरहितैः सातिचारैः, लोकरञ्जनार्थं क्रियमाणैर्वा प्रत्यक्षेण दृश्यमानैः संयम-तपोभिः, अस्य प्रत्यक्षेण दृश्यमानस्य, प्रतिग्रहभरस्य-मनोवाञ्छिता-ऽशनपान-वस्त्र-पात्र-पीठफलक-वसत्यादिग्रहणरूपस्य, निष्क्रयोऽपि-भाटकमपि नास्ति, कुतस्तन्मूल्यस्य संभावनेति भावः; अत्र तदेति गम्यम्, तेन तदा दुर्गतौ-नरकादौ पततः-अधोगमनक्रियां कुर्वतस तव किं-किंनामकं शरणं-तत्र पतननिवारणसमर्थं वस्तु, आस्ते ?, च पुनः परत्र-परलोके, सौख्यं-सुखं किं-किंनामकं सुकृतं दास्यति ? इति-अमुना प्रकारेणोपदिष्टम्, अवेहि-सम्यग् जानीहि ।।१३.६ ।।
रत्न.-पुनरेतदेवाचष्टे - 'जातोऽस्ति.इति., व्याख्या-अमीभिर्लोकरञ्जनार्थं किञ्चिद्-ईषत् संयमतपोभिर्अस्य प्रतिग्रहभरस्य-अशन-पान-खादिम-स्वादिम-वस्त्र-पात्र-कम्बल-पादप्रोञ्छनपूजा-सत्कारादिकस्य मुग्धजनवञ्चनप्राप्तस्य निष्क्रयोऽपि-मूल्यमपि न जातोऽस्ति, येन गृहस्थेभ्यो गृहीतप्रतिग्रहभरस्य ऋणमपि शुद्ध्यतीत्यर्थः, तत् तव दुर्गतौ निपततः सतः किं शरणमास्ते ?, अपि तु न किमपि, च पुनः, परत्र-परभवे सौख्यं किं दास्यति ?, निष्क्रयादधिकं सुकृतमित्यध्याहार्यं, हे आत्मन् ! १. जातो० पाठः मूलत्वेनापि गृहीतः ।