________________
२३०
श्रीअध्यात्मकल्पद्रुमे
तथा शुद्धा-निर्मला गुप्ती:-मनो- वाक्- कायनिरोधरूपाः न धत्से- न दधासि च पुनः समितीः- ईर्याभाषैषणादाननिक्षेपपारिष्ठापनिकाः पञ्चापि ताः प्रति, न धत्से इति योज्यं, तथा तपो बाह्याभ्यन्तरभेदाद् द्विधा नार्जसि - स्वकीयत्वेन न करोषि, कस्माद् ? देहे मोहो- मौढ्यं तस्मात् 'मदीयो देहो मा कृशो भवतु'इति देहमोहादित्यर्थः, तथा 'हि निश्चितं अल्पे हेतौ-निमित्ते कषायान् प्रति दधसे- धत्से, तथा परीषहान् - क्षुत् - तृषा - शीतोष्णादिलक्षणान् नो सहसे-न क्षमसे, तथा च पुनरुपसर्गान् परैः कृतान् ताडना -ऽऽक्रोशादिकान् न सहसे, देहमोहादितिग्राह्यम्, तथा
"जे नो करंति मणसा निज्जिये" इत्याद्यार्योक्तानामष्टादशसहस्रप्रमाणशीलाङ्गानां धरोऽपि नासि, तत् तस्माद्धेतोस्त्वं मोक्षमाणोऽपि - मुक्तिमिच्छुरपि भवाब्धिपारं-संसारसमुद्रपरतटं लोकाग्रभागलक्षणं सिद्धस्थानं कथं यास्यसि ?, अपि तु न यास्यसि, कस्मात् ? केवलं वेषो वेषमात्रं तस्माद्, भावचरणशून्यादित्यर्थः ।।१३.३।।
-
[३३८] आजीवकार्थमिह यद्यतिवेषमेष,
धत्से चरित्रममलं न तु कष्टभीरुः । तद् वेत्सि किं न ? न बिभेति जगज्जिघृक्षुर्मृत्युः कुतोऽपि, नरकश्च न वेषमात्रात् ।। १३.४ । ।
धनवि . - - पुनः केवलवेषस्याकिञ्चित्करत्वं दर्शयन्नुपदिशति
1
'आजीविकार्थम्' इति यद् यस्माद् एष त्वम् इह जगति आजीविकार्थम्जठरमात्रपूर्त्तये यतिवेषं-रजोहरणादि लिङ्गं धत्से-धरसि, न तु कष्टभीरुः सन्उपसर्ग-परीषहसहन-लक्षणकष्टभीरुकः, अमलं निरतिचारं चरित्रं चारित्रं न धत्से, तत्-तर्हि किं न वेत्सि ? - न जानासि यत् जगज्जिघृक्षुः- विश्वं ग्रहीतुमिच्छुर्मृत्युःयमः कुतोऽपि पुरुषविशेषान्न बिभेति न भीतिं प्राप्नोति च पुनर्, नरको निरयो
१. 'हि' पाठोयं मूलत्वेनापि गृहीतः । २. 'वेषान्न' मु० ।
-