SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ देव-गुरु-धर्मशुद्धिद्वारम् , सह मिलन्-सङ्गतिं कुर्वन्, इमान् स्वजात्यान् तारयति -पारं प्रापयति, इसिंहः स्वजात्यैश्चतुष्पदत्वजात्या स्वजातीयैश्चतुष्पदैर्मृग-गवयादिभिर्मिलन् स्वजातीयान् मृग-गवयादीन् पारं प्रापयति, च पुनः कोऽपि कुगुरुः स्वजातीयैर्मनुष्यैः सह मिलन् तैः सहैव दुःखेन गम्यते इति दुर्गो-नरकः, तस्मिन् मज्जति-अधो गच्छतीत्यर्थः, इवयथा शृगालो - मृगधूर्तः स्वजात्यैः शशकादिभिश्चतुष्पदैर्-मिलन तैः शशकादिचतुष्पदैः सहैव दुर्गेऽगाध-त्वरितगतिसरित्प्रवाहे मज्जति, ब्रुडतीत्यर्थः ; - भावार्थः पुनः पञ्चाख्यानाऽऽदिकथानकादवसेयः, तच्च कथानकं लोके प्रसिद्धमपि स्मृत्यर्थं किञ्चिदुच्यते, यथा कस्मिंश्चित् तरुगणाकीर्णेऽरण्ये कुतश्चिदागतसिंहाद् बिभ्यद्भिः सर्वैश्चतुष्पदैः संभूय, ‘सिंहो योगक्षेमकारी' इति मत्वा, स्वामित्वेन प्रपन्नः । तदनु तत्रारण्ये कदाचिद् दावानले उत्थिते सर्वस्वजातीयचतुष्पदविज्ञप्तेन सिंहेन, सर्वे स्वजातीया यथाक्रमं स्वलाङ्गूले लग्ना एकफालया महानदीमुल्लङ्घ्य परं पारं प्रापिताः पुनः कालान्तरेणारण्ये पल्लविते तथैव ते स्वस्थानं प्रापिताः । इति सिंहविलसितं दृष्ट्वा केनचिद् दुर्धिया सिंहस्पर्धिना शृगालेन केचिद्धीनपुण्याः स्वसेवकीकृता-श्चतुष्पदाः, कालान्तरेणान्यदा तत्र दावानले प्रज्वलिते, ते तल्लाङ्गूले लग्नाः, शशकादयश्चतुष्पदा एकफालयैव तेन शृगालेन महानदीप्रवाहे पातिता निमग्नाः इति, अत्र सुगुरूणां सिंहदृष्टान्तता, कुगुरूणां शृगालदृष्टान्तता च स्पष्टैव इति । इति कारणात्, अमिलन्-सङ्गतिमकुर्वन् स-कुगुरुर्वरं सम्यग् भवन्तीत्यर्थः ।।१२.१४।। २२३ रत्न. -अथ सुगुरुं सिंहेन सदृशीकृत्य, कुगुरुं च शृगालेन सदृशीकृत्य चोपदिशति चतुष्पदैः..इति., व्याख्या - कश्चित् सुगुरुरिमान् निजाश्रितान् भव्यान् मिलन् सन् तारयति, इव-यथा सिंहः, स्वजातौ भवाः स्वजात्याः, तैश्चतुष्पदैः सह मिलनिमान् निजपृष्ठलग्नान् चतुष्पदान् तारयति । अन्यच्चेह कश्चित् कुगुरुरिमानाश्रितान् मिलन् सन् तैर्निजाश्रितैः सह मज्जति - ब्रुडति कस्मिन् ? - दुर्गे- जलविषमस्थाने कूपादौ किंवत् ? कश्चिच्छृगालवद्, यथा शृगालः स्वजात्यैश्चतुष्पदैः सह मिलन् तैर्निजाश्रितैः सहैव निमग्नः इति हेतोः सः कुगुरुः शृगालवन्निर्बलः, अमिलन् सन्, वरं-श्रेयो भवति, अत्र कूपपतितचन्द्राकर्षक , ,
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy