SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ____२१३ २१३ देव-गुरु-धर्मशुद्धिद्वारम् [३१६] गजा-ऽश्व-पोतो-ऽक्ष-रथान् यथेष्ट पदाप्तये भद्र ! निजान् परान् वा । भजन्ति विज्ञाः सुगुणान् भजैवं, शिवाय शुद्धान् गुरु-देव-धर्मान् ।।१२.४।। धनवि.-अथ दृष्टान्तपूर्वकं स्व-परव्यवहारहठमकृत्वैव शुद्धा एव गुरु-देवधर्माः श्रयणीया इत्युपदिशति - __'गजाऽश्व' इति, हे भद्र ! - हे निर्माय ! विज्ञा-विवेकवन्तो जना, यथेष्टपदाप्तये-ईप्सितस्थानप्राप्तये, सुगुणान्-सुष्ठु-अतिशयेन, गुणः-सुखसञ्चारितादिलक्षणो येषां ते तथा तान् निजान्-स्वकीयान्, वा-अथवा परान्-परकीयान्, गजाश्च-हस्तिनः, अश्वा-हयाः पोताश्च-यानपात्राणि, उक्षाणश्च-बलीवर्दाः, स्थाश्चशकट-गन्त्रीप्रभृतयस्, ततो द्वन्द्वस्, तान् भजन्ति-प्रतिपद्यन्ते, एवम्, एभिर्दृष्टान्तैस्, त्वं सुगुणान-विशिष्टज्ञान-दर्शन-चारित्रादिगुणान् स्वकीयान् परकीयान् वा, गुरवश्च सम्यक्त्वसहितपञ्चमहाव्रतधराः, देवाश्चान्तरायाद्यष्टा-दशदोषरहिताः, धमाश्चाप्तप्रणीताः, ततो द्वन्द्वस्, तान् गुरु-देव-धर्मान् स्वेष्टपदाप्तये-मुक्तिपदाप्तये भजस्वश्रय । ननु देवगुरुधर्मशुद्ध्यधिकारेऽपि पौर्वापर्येण गुरुशुद्ध्यधिकारे प्रस्तुते देव-गुरु-धर्मशुद्धिप्रतिपादनमनर्थकमिति चेत् ? - न, प्रस्तुतगुरु-देव-धर्मशुद्ध्यधिकारद्वारार्थस्मारणार्थत्वात् । अत्र सुगुणगजादीनां तु शुद्धगुर्वादिदृष्टान्तता इष्टपदप्राप्तेश्च परमपदप्राप्तिदृष्टान्तता भावनीयेति ।।१२.४।। रत्न.-ततः शुद्धान् गुरु-देव-धर्मानाश्रय..इति कथयति - गजा-ऽश्व-पोतो-ऽक्ष-रथान् इति., व्याख्या-हे भद्र ! - हे साधो ! विज्ञादक्षा यथेष्टपदाप्तये वाञ्छितस्थानप्राप्त्यै निजान्-स्वकीयान् वा - अथवा परान्परकीयान् गजाश्चपोतोक्षरथान्-हस्ति-तुरग-वहन-गो-स्यन्दनान् भजन्ति, किंलक्षणान ? - सुगुणान्-लक्षणशास्त्रोक्त-स्वस्वगुणोपेतान्, एवमिति-तद्वत्, हे भद्रात्मन् ! त्वं देव-गुरु-धर्मान् योगशास्त्राद्युक्त-लक्षणणोपेतान्, शिवाय-मोक्षाय भज-श्रयेति ||११.४।। C-16
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy