________________
१९४
श्रीअध्यात्मकल्पद्रुमे वक्तुमशक्याः किं पुनरनुभवितुमित्यर्थः, श्वभ्रादीनां-नरकादीनां वेदनाः प्रति स्वीकरोषि, अर्जयसीत्यर्थः, आदिशब्देन तिरश्चां वेदनाग्रहणं, ततस्तवात्मन् ! धियं प्रति-बुद्धिं प्रति धिगस्त्विति ।।१०.२५।। ..
[२९६] क्वचित् कषायैः क्वचन प्रमादैः,
कदाग्रहै: क्वापि समत्सराद्यैः । आत्मानमात्मन् ! कलुषीकरोषि,
बिभेषि धिग् नो नरकादधर्मा ||१०.२६ ।। धनवि.-अथ सामान्यतो वैराग्यद्वारमुपसंहरन् तिरस्कारपूर्वकं कषायादिसकलकलङ्कनिरासार्थमात्मानमुपदिशति -
'क्वचित्' इति, हे आत्मन् ! त्वं क्वचित् परीषहसहनादौ, कषायैः क्रोधादिभिः, आत्मानं-स्वं कलुषीकरोषि-मलिनीकुरुषे, तथा क्वचन क्रियानुष्ठानादौ, प्रमादै-मद्यादिभिरात्मानं कलुषीकरोषि, क्वापि शास्त्रार्थप्ररूपणादौ समत्सराद्यैः कदाग्रहै:-मिथ्याभिनिवेशाद्यैरसद्ग्रहैरात्मानं कलुषीकरोषि, अत्र आद्यपदेन क्वचिच्छास्त्रार्थ-श्रवणादौ मौढ्यादिभिराशातना-करणेनात्मानं कलुषीकरोषीत्यपि सूचितं, च पुनर्, अधर्मा सन् नरकात् प्रसिद्धान्न बिभेषि-न भयं प्राप्नोषीत्यर्थः, तत्र न विद्यते धर्मो-देशविरतिलक्षणः सर्वविरतिलक्षणः सम्यक्त्वलक्षणो दानादिलक्षणो वा यस्य सः अधर्मा, पाप्मानित्यर्थः, 'द्विपदाद् धर्माद् अन् [सि.हे ७-३-१४१] इति साधुः, अत एवात्मानं कलङ्कयन्तं धर्मविरहितं नरकेभ्यो निर्भयं त्वां धिगस्त्वित्यर्थः, एतावता तिरस्कारेण कषायादिप्रमादरहितः सन् धर्मं कुर्वित्यर्थतो दर्शितमिति ।।१०.२६ ।।
इति श्रीतपोगच्छनायकश्रीमुनिसुन्दरसूरिनिर्मितस्याध्यात्मकल्पद्रुमस्याधिरोहणीटीकायां महोपाध्यायश्रीकल्याणविजयशिष्योपाध्याय-श्रीधनविजयगणिविरचितायां सामान्यतो वैराग्योपदेशनाम्नी दशमी पदपद्धतिः ।।१०।।
रत्न.-एतदेव प्रकारान्तरेणाचष्टे -