________________
१७२
श्रीअध्यात्मकल्पद्रुमे प्रदीप्ते रागाग्नौ सुदृढतरमाश्लिष्यति वधूं, प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः ।।११।।" इति ।
अत्र सागराणि-सागरोपमाणि, तानि च दशकोटाकोटीपल्योपमैरेकं सागरोपमं भवति, एवंविधानि त्रयस्त्रिंशत्सागरोपमाणि यावदित्यर्थः, पल्योपमस्वरूपं च संक्षिप्तमिदम् - [पञ्चमकर्मग्रन्थे] [२६४] उद्धार १-अद्ध २-खित्ता ३-पलिय तिहा समय १वाससय २समया ३। . केसुवहारो दीवोदहि १-आउ २-तसाइ ३-परिमाणं [८५]
अत्रोद्धारपल्योपमं ग्राह्यं, विस्तरतस्तु प्रवचनसारोद्धाराष्टपञ्चाशदधिकशतद्वारादिभ्योऽवसेयमिति ।।१०.१२।।
रत्न.-अथाल्पैः सुखैः करणैः परभवेऽनन्तदुखराशौ पतन्तं जीवं प्रति बोधायाह-आत्मानमल्पैरिह..इति., व्याख्या-हे जन ! इह-अस्मिन् भवे-संसारे, प्रकल्पितैः-औपचारिकैर-वाक्-तनु-चित्तानां-वचन-काय-मनसाम्, अल्यैः-तुच्छैः सौख्यैः करणैरात्मानं वञ्चयित्वा नारकाणां दुःखराशीन् प्रति हा..इति खेदे, किं सोढाऽसि ? - किं सहिष्यसि, अपितु धर्मकरणेन सोढा मा भवेति, कस्मिन ? - भवेषु-अवतारेष्वधमो नीचो भवो भवाधमस्तस्मिन् तन्नारकभवे इत्यर्थः, यावदित्यध्याहार्यं, कानि प्रति सागराणि, 'सत्या' इत्युक्ते सत्यभामेतिवत् सागरोपमाणि यावदित्यर्थः ।।१०.१२ ।। [२६५] उरभ्र-काकिण्युदबिन्दुका-ऽऽम्र
वणिक्त्रयी-शाकट-भिक्षुकाद्यैः । निदर्शनैरेरितमर्त्यजन्मा,
दुःखी प्रमादैर्बहु शोचिताऽसि ।।१०.१३।। धनवि.-अथ सामान्यतः प्रमादपरिहारं नानानिदर्शनदर्शनपूर्वकमुपदिशन्नाह - 'उरभ्र' इति प्रमादैः-मद्यादिभिर् हेतुभिर्दारितमर्त्यजन्मा-हारितं प्राप्तं सन्,
१. 'वाक्-तनु-'इति मूलत्वेन गृहीतः पाठः । २. हा इति मूलत्वेन गृहीतः |