________________
श्रीअध्यात्मकल्पद्रुमे
निकाचित-नरकायुष्कर्मा मृत्यौ-मरणे सति नूनं निश्चितं नरके- नरकगतौ यातागन्तेति ।।९.१४।।
१५४
रत्न. – अकारणं यस्य इति, व्याख्या - शास्त्राणि -जिनागमादीनि वेत्त शास्त्रवित्, तस्यापि यस्य मनः सुदुर्विकल्पैरतिशयेन दुष्टसङ्कल्पैः, हतंपीडितं, कथम् ? - अकारणं कारणं विनापि, उपसर्गादिकारणमत्र गृह्यते, तेन तद्द्द्विनैवेत्यर्थः, कथ ? - नित्यं स पुमान् नूनं- निश्चितं नरके प्रयाता गन्ता, कस्मात्? मृत्योः-मरणात् यतः किंलक्षणः निकाचितं नारकायुर्येन स, कैः ? अधैः पापैः किंभूतैः ? घोरैः-भयानकैः ।।९.१४।।
,
-
[२३६] योगस्य हेतुर्मनसः समाधिः, परं निदानं तपसश्च योगः ।
तपश्च मूलं शिवशर्मवल्ल्याः, मनःसमाधिं भर तत् कथञ्चित् ।।९.१५।।
-
धनवि: -अथ मनोनिग्रहस्यैव परंपरयाऽपि मोक्षकारणतां दर्शयन्नुपदिशति 'योगस्य' इति मनसः समाधिः- एकाग्रता, राग-द्वेषराहित्यमित्यर्थः, योगस्यज्ञान-दर्शन-चारित्रात्मकस्याष्टाङ्गस्य वा हेतुः कारणं भवति, च पुनर्योगस्तपसोद्वादशविधस्य तपःकर्मणः परं प्रकृष्टं निदानं साधनं भवति, योगसहितस्यैव तपसः साध्यसाधकत्वात्, तपश्च शिवशर्मवल्ल्या - मोक्षसुखलताया, मूलम्-आदिकारणं भवति, तत्-तस्मात् कथञ्चित् - केनाप्युपायेन मनःसमाधिं - चेतःस्वास्थ्यं भर-धरेत्यर्थः ।।९.१५ ।।
,
रत्न. - योगस्य हेतुर् इति व्याख्या - मनसः समाधिः- ऐकाग्र्यं, योगस्यअष्टाङ्गयोगस्य हेतुः-बीजं वर्त्तते इति सर्वत्र ज्ञेयं च पुनर्योगस्तपसः परंपरमं निदानं-हेतुः, च पुनः शिवस्य - मोक्षस्य शर्म-सुखं, `तदैव वल्ली, तस्यास्तपो मूलं, तत्-तस्मात्, हे शिवसुखसंतानार्थिन् ! कथञ्चिद् येन तेनोपायेन, मनसः १. मृत्योः ‘इति पाठो मूलत्वेनापि गृहीतः । पञ्चमीवशात् 'अनन्तरम्' इत्यध्याहार्यम् । २. सैव मु० ।
-
1