SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चित्तदमनद्वारम् १५१ , चासौ श्वा च तथा [ स इव] पूतिश्रुतिश्वेव- दुष्टरोगा ऽऽक्रान्तकुकुर इव रतेरमणाल्लीलाविशेषात् सौख्याद् वा विदूरे- विशेषेण दूरे भवति च पुनः कुमनोहतोऽङ्गी कुष्ठीव - कुष्ठरोगा - ऽऽक्रान्त इव संपत्सु-संपत्तिषु सतीषु दृशांलोचनानां निन्द्यत्वेन, अनर्हः-अयोग्यो भवति, यद् वा संपदो-रूप-सौन्दर्यादयस्ता एव सुदृशः-स्त्रियो, यद् वा संपद एव सुदृशस्तासामनर्ह इत्यर्थः च पुनः कुमनोहतोऽङ्गी श्वपाकवत् - चाण्डाल इव सद्गतिमन्दिरेषु उत्तमगतिलक्षणगृहेषु प्रवेशं-मध्ये गमनं नार्हेत्-न योग्यो भवतीत्यर्थः, श्वपाकोऽपि सताम् उत्तमानां गतयो गमनानि येषु तानि च तानि मन्दिराणि तेषु प्रवेशा-ऽयोग्यो भवतीति , ।।९.११।। रत्न. - पूतिश्रुतिः..इति., व्याख्या - कुत्सितं मनः कुमनः, कुविकल्पैर्दुष्टमित्यर्थः कुमनसा हतः-संतापितोऽङ्गी-देही, श्वपाकवत् चण्डालवत् सद्गतय एव मन्दिराणि-गृहाणि तेषु प्रवेशं नार्हेत्-न योग्यो भवेत्, श्वपाकोऽपि सती शोभना गतिःअवस्था येषां तानि सद्गतीनि सद्गतीनि च तानि मन्दिराणि च सद्गति मन्दिराणि, तेषु, महेभ्यादिगृहेष्वित्यर्थः, प्रवेशं नार्हतीति इव यथा पूतिश्रुतिः श्वा-क्वथितकर्णः कुक्कुरः रते :- रागाद् विदूरे स्यात्, प्रेमकारी न स्यादित्यर्थः, इव - यथा कुष्ठी - कुष्ठरोगवान् पुरुषः संपत्सु सतीष्वपि दृशां चक्षुषामनर्हः स्यात्, दर्शनाय योग्यो न भवेद्, अथवा संपद एव सुदृशः - स्त्रियस्तासामनर्हः स्यादित्यपि व्याख्याभेदः, रूप-सौभाग्यादिसंपदः तं नाश्रयन्तीति ।।९.११।। · [२३३] तपो-जपाद्याः स्वफलाय धर्मा, न दुर्विकल्पैर्हतचेतसः स्युः । तत् खाद्य-पेयैः सुभृतेऽपि गेहे, क्षुधा तृषाभ्यां म्रियते स्वदोषात् ।।९.१२ ।। धनवि.—–अथानिगृहीतमनसां पुंसां क्रियमाणा धर्माः स्वफलाय न प्रभवन्तीति दृष्टान्तपूर्वकं दर्शयन्नुपदिशति - १. पूतिश्रुतिः 'पाठो प्रतौ मूलत्वेन स्वीकृतः । २. कुथित. मु० । ३. 'संपदां स नाश्रयो भवति - मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy