SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४८ श्रीअध्यात्मकल्पद्रु पुनस्तं तथाविधं धर्मं विहाय त्यक्त्वा भवाम्बुधौ- संसारसागरे पतन्- निमज्जन् डो-मूर्खो जनो-लोक, आयतिदृग्-उत्तराकलदर्शी न भवतीति । । ९.८ ।। रत्न. – लब्ध्वाऽपि धर्मम् इति., व्याख्या - जडो - मूर्खो जनः, आयतिम्-उत्तरकालं पश्यतीति आयतिदृग् नास्ति, अथवा आयतौ – दृग् बुद्धिर्यस्य स आयतिदृग् नास्ति, उत्तरकाले मम किं भविष्यतीति विचारवान् नास्तीत्यर्थः, किं कुर्वन ? पतन्, कस्मिन् ? - भवाम्बुधौ - भवसमुद्रे, किं कृतः सन् ? मन एव पिशाचोभूतः, तेन ग्रहिलीकृतः, ग्रहिलीकृतः सन् किं कृत्वा ? - लब्ध्वाऽपि प्राप्यापि, च पुनः किं कृत्वा ? - संत्यज्य, कं ? - धर्मं धर्मं प्राप्य पुनः संत्यज्येत्यर्थः कीदृश ? सकलं-पूर्णं, किंलक्षण ? - जिनैः - सर्वज्ञैरुदितं कथितं, न तु शाक्याद्यादिष्टमिति, किंलक्षणं'? - सुदुर्लभम् अतिशयेन दुर्लभमित्यर्थः, पुनः कीदृश ? यानपात्रस्य निभं-सदृशमाश्रितजनतारकत्वादिति । । ९.१५ ।। 1 - [२२९] सुदुर्जयं ही रिपवत्यदो मनोरिपूकरोत्येव व वाक्-तनू अपि । त्रिभिर्हतस्तद्-रिपुभिः करोतु किं, पदीभवन् दुर्विपदां पदे पदे ? ।।९.९।। धनवि.—अथ मनसः शत्रुतां दर्शयन् तन्निग्रहमुपदिशति अत्र 'सुदुर्जयं ही' इति हीति खेदे अदो मनः सुदुर्जयं सद्-अतिशयेन दुःखेनकष्टेन जीयते इति, तथा सद् रिपवति-रिपुरिवाचरति, स्वयमिति गम्यं, अदःशब्देन विप्रकर्षो, यदुक्तम् - ― - [२३०] "इदमः प्रत्यक्षगते समीपतरवर्त्ति चैतदोरूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् ।। [ ] ।।" इति, विप्रकृष्टता च मनसोऽतिचञ्चलत्वेनास्वायत्तत्वात् च पुनरदो मनो वाक्तनू अपि-वचन-शरीरे अपि रिपूकरोति -शत्रूकरोति, मनोव्यापारे दुष्टे वाक्१. पुनः किंभूतं ?
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy