________________
१४४
श्रीअध्यात्मकल्पद्रुमे ___ 'वशं मन' इति यस्य पुरुषस्य मनः-चित्तं वशं-स्वायत्तं सत् समाहितंसमाधियुक्तं रागद्वेषरहितं स्याद्-भवेत् तस्य पुरुषस्य, नियमैः-शौचादिभिः पञ्चभिः च पुनर्यमैः-अहिंसादिभिः, किं स्याद् ?, अपि तु न किञ्चिदित्यर्थः; ।
अत्र यम-नियमयोः स्वरूपं चेदं, नियम्यते चित्तमेभिरिति नियमाः, ते च [२२१] "नियमाः शौचं संतोषः, स्वाध्याय-तपसी अपि ।
देवताप्रणिधानं 'च' - इति, १. शुचेर्भावः कर्म वा शौचं-काय-मनसोः शुद्धिः २. संतोषः-सन्निहितसाधनादधिकस्यानुपादित्सा ३. स्वकीयमध्ययनं स्वाध्यायो, मोक्षशास्त्राध्ययनं प्रणवजपो वा ४. तप्यते तदिति तपः-चान्द्रायणादि ५. देवतायाः-वीतरागस्य प्रणिधानम्आत्मना सर्वतः संभेदः इति पञ्चविधाः; । यम्यते-उपरम्यते दुर्गतिभ्य आत्मा एभिरिति यमाः, ते चाऽहिंसा-सूनृताऽस्तेय-ब्रह्मा-ऽकिञ्चनाः, तत्र १. हिंसाप्राणव्यपरोपणं तदभावोऽहिंसा २. सूनृतं-सत्यं प्रियं वा वचः ३. स्तेयम्अदत्तादानं तदभावोऽस्तेयं ४. ब्रह्मचर्य-मैथुनत्यागः ५. अकिञ्चनता-परिग्रहत्यागः ५, इति पञ्चविधाः, च पुनः यस्य मनो विकल्पैः-दुचिन्तितितैर्हतम्-उपहतं व्याप्तं (-यमाः), स्यात्, तस्य पुरुषस्य यमैर्नियमैश्च किं कार्यं स्याद् ?, अपि तु न किञ्चिदिति, मनसो वशत्वेऽवशत्वे च यम-नियमयोर्वैयर्थ्यमिति भावः, यदुक्तम्
[२२२] "राग-द्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् ? |
तावेव यदि न स्यातां, तपसा किं प्रयोजनम् ? [ ] ||९.५।। इति
रत्न. वशं मनो यस्य...इति. व्याख्या-मनो वशं-स्वायत्तं सत्, समानतालक्षणैः हितं-सुस्थं समाधिमत् तस्यात् स्यात् मनो नियमैः-शौच-संतोष-स्वाध्याय-तपोदेवताप्रणिधानलक्षणैः, पञ्चभिर्यमैः-अहिंसा-सूनृताऽस्तेय-ब्रह्माऽकिञ्चतालक्षणे: १. तत्. मु० । २. 'करणं पुनरासनं' इति पद्यपूत्तिः - (अभिधान चिन्तामणि-१.८२) । ३. 'अङ्गचान्द्रायणं पूर्व चान्द्रायणं न्यूनोदरतादि' इति प्रतौ टिप्पणम् । ४. 'मिलनं एकरूपं वा' इति प्र.टी. 1 ५. 'च' अर्थे 'वा, तुल्यतां' जा य सच्चा, तथा 'असच्चमोसं' इति दशवैकालिकसूत्र - ७.२ तथा ७.३ - प्रभृति गाथा सं. | ६. आकिञ्चन्यैः मु० ।