SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चित्तदमनद्वारम् जालैर्मत्स्यं निबध्याग्निभिश्चिरं पचतीति युक्त उपमानोपमेयभावः इति हेतोस्त्वमस्य मनःकैवर्त्तकस्य मा विश्वसी :- मा विश्वासं कुर्या:, यथाऽस्य जाले न पतसि तथा यतेथा इति । ।१.८ ।। [२१७] चेतोऽर्थये, मयि चिरत्नसख ! प्रसीद, किं दुर्विकल्पनिकरैः क्षिपसे भवे माम् ? । बद्धोऽञ्जलिः, कुरु कृपां, भज सद्विकल्पान्, मैत्रीं कृतार्थय, यतो नरकाद् बिभेमि ।।९.२।। धनवि . - अथ दुष्टं मनोऽनुकूलयन्नाह ‘चेतोऽर्थये' इति–हे चेतः ! अहम्, अर्थये-प्रार्थनां करोमि, हे चिरत्नसख !, - हे चिरन्तनमित्र, त्वं मयि - मद्विषये प्रसीद-प्रसन्नं भव, अत्रात्मनो मनसश्चिरन्तनमित्रता व्यवहारतोऽनेकभवसम्बन्धादेव प्रतीता, अप्रसन्नस्य प्रसत्तिप्रार्थनायोग्यता भवतीति मनसोऽप्रसत्तिस्वरूपं दर्शयति यतो दुर्विकल्पनिकरैः दुष्टचिन्तनसमूहैस्त्वं मां भवे-संसारे किं-किमर्थं क्षिपसे ? - क्षेपणं कुरुषे, मया अञ्जलिः प्रार्थनापूर्वकं करसंयोजनं बद्धो-रचितः तव मनसः पुरस्तादितिगम्यं, प्रार्थनामेवाह-त्वं मयि कृपां-दयां कुरु-समाचर, का कृपा कर्त्तव्या इत्याह- सद्विकल्पान् धर्मध्यानहेतुकार्यचिन्तनलक्षणान् भज-आश्रय, चिरन्तनां मैत्रीं- मित्रतां कृतार्थय - कृतार्थांसफलां कुर्वित्यर्थः, एतावत् प्रार्थनाकरणे हेतुमाह-यतः कारणादहं नरकात्नरकगतेर्बिभेमि भयं गच्छामीति ।।९.२।। रत्न. - अथात्मा भीतः सन् मनःसुहृदं विज्ञपयति - — १४१ चेतोऽर्थये इति., व्याख्या - जीवः कथयति - हे चेतः हे मनः ! त्वां प्रत्यहमर्थये-याचे, हे चिरत्नसख ! - हे चिरकालीनमित्र, त्वं मयि विषये प्रसीद-प्रसन्नं भव, मां प्रति दुर्विकल्पानां निकराः- समूहाः, तैर्हेतुभिर्भवे- संसारे किं क्षिपसे ?, प्रसादं कृत्वा मा क्षिपस्वेत्यर्थः । त्वां प्रति मयाऽञ्जलिःप्रसृतिद्वययोजनरूपो बद्धः । किमर्थमित्याह-त्वं कृपां कुरु, कृपां कृत्वा सतः -
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy