SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३८ श्रीअध्यात्मकल्पद्रुमे तवेमाश्चतुर्गतिदुःखततयो न स्युः-न भवन्ति इति (भवेयुः)इति ।।८.२.६ ।। रत्न.-अथोपसंहारवाक्यमाह - इति चतुर्गतिदुःखतती...इति. व्याख्या-हे आत्मन् ! हे कृतिन् ! - हे पण्डित ! इति-पूर्वोक्तप्रकारेण चतुर्गतीनां-नरक-तिर्यग्-देव-मनुष्यगतीनां दुःखततीः प्रति-दुःखश्रेणी: प्रति, जिनेन-अर्हता वीरेणोक्तो यः कृतान्तः-सिद्धान्तः, तस्माद् हृदि-मनसि विभाव्य विचार्य त्वं तथा कुरु । किंलक्षणाः ? - अति-अतिशयेन भयं याभ्यस्ताः , कथं ? - यावत्, कम् ? - अनन्तम्-अन्तरहितमनेहसं-कालं, तथा कथं ? - यथा इमाः चतुर्गतिदुःखतयस्तव न स्युः-न भवन्तीति ।।९.६ ।। [२१५] आत्मन् ! परस्त्वमसि साहसिकः श्रुताक्षैर् यद् भाविनं चिरचतुर्गतिदुःखराशिम् । पश्यन्नपीह न बिभेषि ततो न तस्य, विच्छित्तये च यतसे विपरीतकारी ||८.२.७।। धनवि.-अथ शास्त्राख्यमूलद्वारमुपजिहीर्षुरुपदिशति - 'आत्मन्' इति-हे आत्मन ! - हे प्राणिन् ! तत्-तस्मात् त्वं पर-उत्कृष्टः साहसिक:-अविमृश्यकारी असि-वर्त्तसे, यद्-यस्मात् त्वमिह-संसारे भाविनं-भविष्यन्तं चिरं चतुर्गतिदुःखराशि-देव-मनुष्य-तिर्यग्-नरकसत्कदुःखसमूह, श्रुताः -श्रुतलोचनैः, पश्यन्नपि-विलोकयन्नपि, ततश्चिरचतुर्गतिदुःखराशेर्न बिभेषि-न भीतिं प्राप्नोषि, च पुनस्तस्य चिरचतुर्गति-दुःखराशेर्विच्छित्तये-विशेषेणोच्छेदाय विपरीतकारी सन्शास्त्रोक्तार्थाद् विपरीतसमाचरणः सन् न यतसे-नोद्यमं कुरुषे ।।८.२.७ ।। इति श्रीतपागच्छनायक... महोपाध्यायश्रीकल्याणविजयगणिशिष्योपाध्याय... श्रीधनविजयगणिविरचितायां... शास्त्राधिकारनाम्न्यष्टमी पदपद्धतिः ।।८।। रत्न.-अथ चतुर्गतिदुःखराशिं भाविनं जानानस्याप्यात्मनोऽधर्मे प्रवृत्तिमतः १. भवेताम् इति. मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy