________________
१२७
अत्यन्तासङ्गतिवाचकाः, तेन भवान्तरे एते त्रयोऽपि न सन्तीत्यर्थः ।। ८.१.६।।
शास्त्रगुणद्वारम्
[२०२] धन्याः केऽप्यनधीतिनोऽपि सदनुष्ठानेषु बद्धादरा
दुस्साध्येषु परोपदेशलवतः श्रद्धानशुद्धाशयाः । केचित् त्वागमपाठिनोऽपि दधतस् तत्पुस्तकान् येऽलसाः, अत्रामुत्र हितेषु कर्मसु कथं ते भाविनः प्रेत्यहाः ? ।। ८.१.७ । । धनवि . - अथ केवलशास्त्राध्ययनात् सम्यक् श्रद्धानसहितशास्त्रोक्तानुष्ठानाचरणस्याधिक्यं दर्शयन्नाह
-
धन्या इति, ते पुरुषा धन्याः- पुण्यवन्तो भवन्ति, ये केऽपि परोपदेशलवतःसुगुरुपदेशात्, श्रद्धानशुद्धाशयाः सम्यक्त्वनिर्मल-चित्ताः सन्तः, अनधीतिनोऽपिअपठिता अपि, दुस्साध्येषु दुर्द्धरेषु सदनुष्ठानेषु प्रधानक्रियासु तपः- संयमादिक्रियासु बद्धादराः-सुबद्धकच्छा भवन्ति । तु पुनर्ये केचिदागमपाठिनोऽपि - जैनशास्त्राध्येतारोऽपि च पुनस्तत्पुस्तकान् - जैनागमपुस्तकान् दधतोऽपि धरन्तोऽपि, अत्र - इह लोके, अमुत्र-परलोके हितेषु सुखकारिषु कर्मसु तपः- संयमादिकार्येषु, अलसाःप्रमादिनो भवन्ति, ते पुरुषाः प्रेत्यहाः - परलोकहितहन्तारः, कथ ? केन प्रकारेण परलोके सुखिनो भविष्यन्तीति ।। ८.१.७।।
रत्न. - अथाल्पाध्ययनेऽपि क्रियाया उत्कर्षं दर्शयति
-
-
-
,
धन्याः 'केऽपि' इति., व्याख्या - केऽप्यनधीतिनोऽपि नञोऽगाल्यार्थकात्वादल्पपाठिनोऽपि धन्याः- सुकृतिनः, यतः किंलक्षणा ? बद्ध आदरो यैस्ते, केष ? • सन्ति-शोभनानि अनुष्ठानानि - क्रियाविशेषाः तेषु किंलक्षणेषु ? - दुस्साध्येषु - निःसत्त्वजनैर्दुःखेन कर्त्तव्येषु, किंलक्षणाः ? श्रद्धानं सम्यक्त्वं तेन शुद्धोनिर्मलः कदाग्रहरहित इत्यर्थः आशयः - चित्ताभिप्रायो येषां ते, कस्मात् ? परेभ्यः-सुविहितशुद्धप्ररूपकगीतार्थेभ्यः उपदेशस्य लवः कणः, तस्मात् परोपदेशलवतः, परोपदेशलवं प्राप्येत्यर्थः, अत्र यब्लोपे पञ्चमी ज्ञेया तुरिति विशेषे, केचिदागमपाठिनोऽपि साधवः अत्र - इह लोके, अमुत्र - परलोके हितेषु - हितकारिषु कर्म१. अत्र 'गम्य-यपः कर्माऽऽधारे 'इति [सि.हे.२.२.७४ ] सूत्रमनुसन्धेयम् । २. नु इति टीकापाठान्तरः ।
-