________________
१२२
श्रीअध्यात्मकल्पद्रुमे कल्याणमिच्छतीति शिवेच्छुर्भवति, चलन् सन् पङ्के निमज्जत्येव, अपि तु न भवति, दृष्टान्तदानेन तत् समर्थयति-रसायनैः-अनेकौषधमिश्रीकृतदग्धसुवर्णादिधातुचूर्णैर्यस्य गदा-रोगा नो 'क्षिताः-न क्षयं नीता अस्य पुंसो नूनं-निश्चितमथवा नूनमिति संभावने, जीवितं सुदुर्लभम्-अतिदुर्लभमित्यर्थः । अत्र सिद्धान्तानां रसायनोपमानं प्रमादपङ्कस्य गदोपमानं, सिद्धान्तपक्षे रस्यन्ते-चय॑न्ते सामाजिकैरिति, रसाः-शृङ्गारादयो नव, सामान्यत उक्तावपि, अत्र मुख्यत उपदेश्यत्वाच्छान्तरस एव ग्राह्यः तेषां, सिद्धान्तपक्षे प्रमादात् पङ्कः-पापमिति व्याख्येयम् ।।८.१.२।। [१९७] अधीतिनोऽर्चादिकृते जिनागमः,
प्रमादिनो दुर्गतिपापतेर्मुधा । ज्योतिर्विमूढस्य हि दीपपातिनो,
गुणाय कस्मै शलभस्य चक्षुषी ? ||८.१.३।। धनवि.-अथ जनेभ्यः पूजाप्राप्त्यर्थं शास्त्राध्ययनं फलवन्न भवतीति दर्शयन्नुपदिशति -
'अधीतिन' इति-अर्चादिकृते-पूजा-प्रतिष्ठाद्यर्थमादिपदादन्नाद्यर्थम्, अधीतिन:अध्ययनशीलस्य प्रमादिनः-प्रमादपरवशस्य जन्तोर्दुर्गतिपापतेः-भृशं दुर्गतिपतनशीलस्य, जिनागमो-भगवत्सिद्धान्तो मुधा-निष्फलो भवति, अत्र पापतेरिति पतधातोर्यङि'डौ सासहि वावहि चाचलि पापतिः' [सि. हे. ५-२-३८] इति सूत्रेण षष्ठ्यां साधुः, उक्तमर्थं दृष्टान्तेन दृढयति-हि-यतो ज्योतिर्विमूढस्य-दीपदीप्तिमोहितस्य दीपपातिनःप्रदीपान्तःपतनशीलस्य शलभस्य-पतङ्गस्य चक्षुषी-नेत्रे कस्मै ? - किंनाम्ने गुणाय-स्वोपकाराय भवत इति, काकूक्त्या न कस्मैचिदुपकारायेत्यर्थः ।।८.१.३।।
रत्न.-अथाधीतिनोऽप्यध्ययनं वृथेति दर्शयति -
१.टी.पा.-क्षिताः-'अत्र क्षि[म)क्षमे. हे.धा.१०.। धनवि.क्षताः, अत्र क्षणक्षिण]हिंसायां हे.धा.१५.१ विद्यते । २. इत आरभ्य पद्यान्तं यावद् वृत्तिशेषः ह.प्र.मध्ये नास्ति० सं. ।