________________
१०८
श्रीअध्यात्मकल्पद्रुमे कृतस्यापि सुकृतस्य हर्तार इत्युपदिष्टं, मा जीहर इत्यत्र मायोगे भविष्यत्काले अद्यतन्या युष्मत्पुरुषैकवचनेऽसौ हृधातोर्ण्यन्तः प्रयोगः, अल्पमपि सुकृतं मदमत्सरादिभिर्विना कुरुष्वेत्युपदेशः यतोऽक्षयं भवति ।।७.१३।। [१७०] पुराऽपि पापैः पतिताऽसि संसृतौ,
दधासि रे ! किं गुणिमत्सरं पुनः ? | न वेत्सि किं घोरजले निपात्यसे,
नियंत्र्यसे शृंखलया च सर्वतः ? |७.१४।। धनवि.-अथ कषायविशेषस्य केवलमत्सरस्य निग्रहमुपदिशति - 'पुराऽपि' इति-रे दुरात्मन् ! पुराऽपि-पूर्वमपि पापैः-पापकर्मभिः पञ्चाश्रवसेवनादिभिः संसृतौ-संसारे, पतिताऽसि-पतिनशीलोऽस्ति, पुनः समुच्चये, रे दुरात्मन् ! गुणिमत्सरं-ज्ञानाद्यधिकगुणवत्सु मत्सरं-स्पर्धी किं दधासि-धरसि ?, अत्रोक्तमर्थं दृष्टान्तदर्शनपूर्वकं समर्थयति-किमिति प्रश्ने न वेत्सि ? - न जानासि, काकूक्त्या, त्वं पापै?रजले अगाधपानीये निपात्यसे-नितरामधोगतिविषयः क्रियसे, च पुनः, गुणिषु मत्सरधरणेन सर्वतः-समन्तात्, शृङ्खलया-लोहनिगडेन नियन्त्र्यसे-बन्धनविषयीक्रियसे, इति कर्मोक्त्या ।।७.१४ ।।
रत्न.-अथ मत्सरविषये किञ्चिदुपदिशति -
पुराऽपि पापैः इति, व्याख्या - हे आत्मन् ! त्वं पुराऽपि-पूर्वमपि पापैः संसृतौ-संसारे पतितोऽसि, पुनर्गुणिषु-गुणवस्तु मत्सरम्-असूयां किं दधासि ?, काकूक्त्या व्याख्यानं, अपि तु मा धत्स्व, किं न वेत्सि ? - न जानासि, अत्रापि काकूध्वनिः त्वं गुणिमत्सरेण, घोरं च तज्जलं च घोरजलं तस्मिन संसृतिसमुद्रे इत्यर्थः निपात्यसे, तथा सर्वतः-सर्वाङ्गेषु शृङ्खलया नियन्त्र्यसे,
१. टीकागतः मूले पाठभेदः - 'अत्र धनवि:-टीकाया भावस्तु एवं - पापानि संसा रे सर्वदा पातनशीलानि, रत्नवि.टीकायास्तु ‘त्वं अधुनापि संसारे पतितवान् एवासि अत पापेभ्यो विरम, पुण्येषु च रमस्व...' इति भावः । २. काकूक्त्या व्याख्यानं मु० ।