________________
श्रीअध्यात्मकल्पद्रुमे
1
तपांसि प्रति, किंलक्षणानि ? - दुरापाणि- दुष्प्रापाणि, कस्माद् ? - यत्नात्, मनीषी किंलक्षणः ? शूरो - वीरः कस्यां ? क्षमायां-क्षान्तौ, अभिभूतः किंलक्षणाः ? नीचेभ्यः-पामरेभ्यो जाताः, कथमपि बलवत्पुरुषेभ्यो जातास्तु सोढव्या एव परं नीचजनकृताभिभूतिसहने केवलं क्षमैव हेतुरिति तेनात्रापिशब्दो योज्यः, अर्थतो युग्मम् ।।७.८ ।।
१०२
-
[१६२] पराभिभूत्याऽल्पिकयाऽपि कुप्यस्यघैरपीमां प्रतिकर्तुमिच्छन् । न वेत्सि तिर्यग्-नरकादिकेषु, तास्तैरनन्तास्त्वतुला भवित्रीः ।।७.९ ।।
-
धनवि . - अथ क्रोध-मानयोर्द्वेषत्वेन साम्यात् मानस्य क्रोधसहचारित्वाच्च कथञ्चिदभेदात् क्रमविपर्ययेऽपि क्रोधनिग्रहमुपदिशति
‘पराभूत्या' इति-हे आत्मन ! त्वम्, अल्पिकयाऽपि - अतिस्तोकयाऽपि पराभिभूत्यापरकृतदुर्वचनादिपराभवेन कुप्यसि कोपं गच्छसि तु पुनर् अघैरपि-वधबन्धनादिपापकर्मभिर्, अपीमां पराभिभूतिं प्रतिकर्तुं पराभवकर्तृन् प्रति प्रतिपराभवं कर्तुमिच्छन्-वाञ्छन्, तैः पापैस्, तिर्यग्-नरकादिषु भवेषु, अनन्ता-दुरन्ता अतुलाअसदृशा भवित्री:- अग्रेभवनशीलास्, ताः पराभिभूतीः परमाधार्मिकादिकृतास्त्वं न वेत्सि ? - न जानासीति । भावार्थस्तु
—
१. युग्मव्याख्या - मु० ।
-
[१६३] "वह-मारण-अब्भक्खाणदाण-परधणविलोवणाईणं ।
सव्वजहण्णो उदओ दसगुणिओ इक्कसि कयाणं ।।[उप.१७७]।। [१६४] तिव्वयरे उ पओसे सयगुणिओ सहस्सकोडिगुणो । काकोडिगुणो वा हुज्ज विवागो बहुतरो वा ।।[उप. १७८ ] ।। इत्यादिना स्पष्ट एवेति । ।७.९ ।।