________________
९६
श्रीअध्यात्मकल्पद्रुमे व्यथाः प्रति सेहिथ सोढवान्, च पुनरागामिभवेऽपि सहिष्यसि, त्वं कथम्भूतः? - पराभवानां भूः-पदं स्थानं, अतः-अस्मात् कारणात् मुग्धोदितैः-मुग्धजनभाषितैः कुवचनादिभिरपि, निजस्य-स्वस्य पुण्यमेव धनं पुण्यधनं किं निहंसि ?, अपि तु मा जहि, कस्मात् ? - क्रोधाद्, यतः किंलक्षणं [पुण्यधनं] ? - दुरापम्, अतस्त्वं क्रोधादिभिः कषायैस्तपोदानादिपुण्यं मा हार्षीरित्युपदेशः ।७.१।। [१५४] पराभिभूतौ यदि मानमुक्तिस्
ततस्तपोऽखण्डमतः शिवं च | मानादृतिर्दुर्वचनादिभिश्चेत् तपक्षयात् तन्नरकादिदुःखम् ।।७.२।।
[१५५] वैरादि चात्रेति विचार्य लाभा
ऽलाभौ कृतिन्ना-ऽऽभवसंभविन्याम् । तपोऽथवा मानमवाभिभूता
विहास्ति नूनं हि गतिर्द्विधैव ।।७.३।। [युग्मम्] धनवि.-क्रोधानन्तरमवसरप्राप्तो मानो भवतीत्यर्थतो युग्मरूपेण पद्यद्वयेन माननिग्रहमुपदिशति -
'पराभिभूतौ' इति-यदि-चेत् पराभिभूतौ-दुर्वचनादिपराभवे जायमाने मानमुक्ति:मानत्यागो भवति, तदा ततो-मानत्यागात् तपो द्वादशभेदम्, अखण्डं-खण्डनारहितं भवति, च पुनरतः-अखण्डतपसः शिवं-मोक्षो भवति; चेद्-यदि दुर्वचनादिभिर्गालितिरस्कारादिभिर्मानादृतिः-अभिमानादरो भवति, तदा तपक्षयात्-तपाखण्डनानारकादिदुःखं भवतीति ।७.२।।
धनवि.-'वैरादि चात्रेति' इति च पुनरत्र-इहभवे वैरादि-विरोधप्रमुखम्, आदिपदात् परस्परं प्रहारादिकं भवतीति हे कृतिन् ! - हे पण्डित ! इति-अमुना प्रकारेण
१. 'खण्डर०' मु० ।