SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ३- चैत्यवन्दनविधि-पञ्चाशकम् ४३ शुभफलजननस्वभावान् शुभकार्योत्पादनप्रकृतीन् चिन्तामण्यादिकानपि आदिशब्द कल्पद्रुम - कामधेन्वादिपरिग्रहः, वस्तुविशेषान् नाभव्यास्तत्प्राप्त्योरपि प्राप्नुवन्ति लभन्ते, किं पुनरिमां भाववन्दनां परमां प्रधानां परमपदबीजमिति मोक्षहेतुभूताम्, तस्माद्भव्या एवेमाम् [भाववन्दनां] प्राप्नुवन्ति । ॥४६॥ ( अभव्यास्तावदिमां न प्राप्नुवन्ति, भव्या अपि न सर्व एवेति दर्शयन्नाह - अटी.) अत्रैव विशेषाभिधानमाह भव्वा वि एत्थ या, जे आसन्ना न जातिमेत्तेणं । माइ सुए भणियं, एयं न उ इट्ठफलजणगं ॥ १४१ ॥ गाथा-४७-४९ - ३/४७ भव्या अप्यत्र ज्ञेया ये आसन्नाः मुक्तेरिति गम्यते, न जातिमात्रेण भव्यत्वेनैव यदनादि, श्रुते सिद्धान्ते भणितमुक्तम् एतद् भव्यत्वं [ जातिभव्यत्वम्] न त्विष्टफलजनकम् । सर्वभव्यानां मुक्त्यनवाप्तेः सामग्रीवैकल्याद् । योग्यतामात्रभव्यत्वाभ्युपगमात् केषाञ्चिदेव सिद्ध्यताम् तदिष्टफलजनकम् । सेत्स्यतां तु सामान्येनैव भव्यत्वम्, 'सेत्स्यन् भव्य:' इति [ ] वचनात् । तल्लक्षणं चेदं सिद्धेरात्यन्तिक्याः शुद्धानां परमनिर्वृतेर्यस्मात् तदभिज्ञातभव्यस्योक्तं भगवद्भिरर्हद्भिः ॥४७॥ तस्मादासन्नभव्या एवात्र ग्राह्या इत्याह विहिपओसो जेसिं, आसन्ना ते वि सुद्धिपत्त त्ति । खुद्दमिगाणं पुण सुद्धदेसणा सिंहनादसमा ॥१४२॥ - ३/४८ विधावप्रद्वेषो येषामासन्नास्तेऽपि शुद्धिप्राप्ता इति कृत्वा विधिकरणेऽपि क्षयोपशमविशेषाद्विध्यप्रद्वेषवतो विशुद्धिप्राप्तत्वादासन्ना इह गृह्यन्ते । क्षुद्रमृगाणां कृपणभीरूणां पुनः शुद्धदेशना विधिदेशना क्रियमाणा, सिंहनादसमा सिंहध्वनितुल्या सन्त्रासहेतुत्वाद् । यथोक्तं- शुद्धदेशना हि क्षुद्रसत्त्वमृगयूथसन्त्रासनसिंहनादः ॥४८॥ तस्मात्तेषां तदुपकारिण्येव देशना युक्ता, मार्गावतारभावेन तद्धितोपपत्तेरिति प्रज्ञापकोपदेशमाह - - आलोचिऊण एवं, तंतं पुव्वावरेण सूरीहिं । विहिजो कायव्वो, मुद्धाण हियट्टया सम्मं ॥१४३॥ ३/४९ आलोच्यैवम्, तन्यन्ते विस्तार्यन्तेऽर्था अनेनेति तन्त्रं सूत्रम् । पूर्वापरेण पूर्वापरप्रकाराभ्यामविरोधेनेत्यर्थः। सूरिभिराचार्यैः विधियत्नः कर्त्तव्यो विधातव्योऽभिधेयः, मुग्धानामज्ञानानां
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy