SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ गाथा-१४-१७ १-श्रावकधर्मविधि-पञ्चाशकम् तृतीयाणुव्रतातिचारपरिवर्जनायाह - वज्जइ इह तेनाहड, तक्करजोगं विरुद्धरज्जं च । कूडतुलकूडमाणं, तप्पडिरूवं च ववहारं ॥१४॥ १/१४ वर्जयतीह तृतीयव्रते, स्तेनाहृतं चौराहतं, कुङ्कुमादिद्रव्यजातं देशान्तरादानीतम् । प्रच्छन्नं दीयमानं लोकव्यवहारपतितं गृह्णात्यपि तस्करः तदेव चौर्यकर्माऽविरतं कुर्वन्ति, नान्यत्कृष्यादिकमिति [तत्+कृ] 'तद्ग्रहणतोः कर-पत्योश्चौर-देवतयोः' इति निपातनात् तेषामिति । योगः प्रयोगो व्यापारणमानयत यूयम्, अहं ग्रहीष्यामि इति तम् । विरुद्धराज्यं च विरुद्धराज्यातिक्रमं च । कूटतुला-कूटमानमसत्योत्कीर्णकण्टकतुला, असत्यधान्य-रसमानं, तत्प्रतिरूपं च सत्यसदृशं च व्यवहारः घृत-तिल-शाल्यादिषु वसा-महिषीप्रस्रवणपलञ्जादिप्रक्षेपरूपम् ॥१४॥ उक्तं सातिचारं तृतीयाणुव्रतम् । अधुना चतुर्थमाह - परदारस्स य विरई, ओरालविउविभेदओ दुविहं । एयमिह मुणेयव्वं, सदारसंतोस मो एत्थ ॥१५॥ १/१५ परदारस्य च विरतिव्रतमौदारिक-वैक्रियभेदतो द्विविधमेतत् परदारमिह मन्तव्यम् । स्वदारसन्तोषश्चात्र व्रतम् । कश्चित्परदारवर्जनं विधत्ते, कश्चित् स्वदारसन्तोषम् ॥१/१५॥ तयोरतिचारानाह - वज्जइ इत्तरिअपरिग्गहियागमणं अणंगकीडं च । परवीवाहक्करणं, कामे तिव्वाभिलासं च ॥१६॥ १/१६ वर्जयति, इत्वरी गत्वरी, न सदावस्थायिनी, इत्वरं च कियन्तमपि कालं भाटीप्रदानेन सगृहीता इत्वरिका, अपरिगृहीता वेश्याकुलाङ्गना वाऽनाथा । इत्वरिका चापरिगृहीता च, तयोर्गमनमासेवनम् [इत्वर्थपरिगृहीतागमनम्] । अनङ्गक्रीडां च कामशास्त्रोपदेशेन, तथा विक्षेपकरणैः । परविवाहकरणम्, कन्याफललिप्सया । कामे कामविषयम्, तीव्राभिलाषं च रात्रिंदिवं तदध्यवसायरूपम् ।।१६।। उक्तं सातिचारं चतुर्थाणुव्रतम्, अधुना पञ्चममाह - इच्छापरिमाणं खलु, असदारंभविणिवित्तिसंजणगं । खेत्ताइवत्थुविसयं, 'वित्तादविरोहओ चित्तं ॥१७॥ १/१७
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy