SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २९३ परिशिष्टम् - ६ ताडितास्ते तु स्वमातृभ्यो न्यवेदयन् । तं च ताः कुपिताः शापैश्चकुरुद्वेगभाजनम् ॥१३॥ एवं ते रज्ञाना: सूरिणा समुपेक्षिताः । इतश्च मथुरानाथ आसीत् पर्वतको नृपः ॥ १४ ॥ तत्सुता निर्वृतिर्नाम यौवनोद्भेदसुन्दरा। वरार्थे तेन साऽवाचि भर्तारं वृणु वाञ्छितम् ॥१५॥ सा पुनस्तमनुज्ञाप्याचलदिन्द्रपुरं प्रति । राजपुत्रा यतस्तत्र भूयांसः सन्ति सद्गुणाः ॥ १६ ॥ ततः सेन्द्रपुरं प्रापदाप्तलोकसमन्विता । तुष्टेन चेन्द्रदत्तेन राज्ञाऽकारि पुरे महः ||१७|| निर्वृत्या भणितं राज्ञो राधावेधं करिष्यति । यः कुमारः स मे भर्ता भविष्यत्यपरो न तु ॥ १८ ॥ तदाकर्ण्य नृपो रङ्ङ्गं कारयामास तत्र च । एकत्राक्षेऽष्ट चक्राणि तत्पुरः पुत्रिकां तथा ॥ १९॥ सा च चक्षुषि बाणेन भेत्तव्याऽधोविवर्तिना । ततः सैन्ययुतो राजा रङ्गे तस्थौ सपुत्रकः ॥२०॥ निर्वृतिश्चैकदेशेऽस्य स्थिताऽलङ्कृतविग्रहा । यथास्वं च निविष्टेषु सामन्तनागरादिषु ॥ २१॥ आदिष्टो ज्येष्ठपुत्रोऽथ राज्ञा श्रीमालिनामकः । भित्त्वा राधां गृहाणेमां कन्यां राज्यं च पुत्रक ! ॥ २२ ॥ ततः सोऽशिक्षितत्वेन साध्वसोत्कंपिविग्रहः । शशाक नैव तां भेत्तुमेवं ते शेषका अपि ॥ २३॥ ततो राजा स्वपुत्राणां मूर्खतां वीक्ष्य तत्क्षणात् । शुशोच हस्तविन्यस्तगण्डो भून्यस्तदृष्टिकः ॥ २४ ॥ ततोऽमात्यस्तमापृच्छत् किं देव ! दैन्यवान् भवान् । सोऽवोचद्दुः सुतैरेतैरहं भो धर्षितो जने ॥ २५ ॥ ततोऽमात्योऽवदद्भूपं यथाऽन्योऽपि च ते सुतः । विद्यते सोऽपि देवेन राधावेधे नियुज्यताम् ॥२६॥ राजाऽवोचत् कुतो मेऽन्यः सुतोऽमात्योऽप्यवोचत । मन्नप्तास्ति ततः पत्रं दर्शयामास तस्य तत् ॥२७॥ संजातप्रत्ययो राजा संतुष्टस्तं बभाण च । आनयामात्य ! मत्पुत्रं तस्य तं सोऽप्यदर्शयत् ॥२८॥ आलिङ्ग्य मूर्ध्नि चाघ्राय तं बभाषे सुतोत्तमम् । कन्यां गृहाण राज्यं च भित्त्वा राधां महाद्भुताम् ॥२९॥ यदादिशति तातस्तत् करोमीत्यभिधाय सः। धनुर्वेदोपदेशेन राधां भेत्तुमुपस्थितः ॥ ३०॥ तान्यस्य चेटरूपाणि ते च द्वाविंशतिः सुताः । उत्खातासी नरौ द्वौ च नाना चक्रुरुपद्रवान् ॥३१॥ कलाचार्योऽप्यवोचत्तं न चेद्राधां विभेत्स्यसि । तदेतौ ते शिरो वत्स ! छेत्स्यतो दारुणौ नरौ ॥३२॥ ततोऽसावपकर्यैतान् लब्धलक्षोऽप्रमादवान् । चक्राणामन्तरं ज्ञात्वा राधां झगिति विद्धवान् ॥३३॥ ततश्चास्फालितं तूर्यं साधुकारः कृतो जनैः । राजादिस्तोषितो लोक ऊढा कन्या च तेन सा ॥३४॥ इति ॥१४/२९॥ (१०) मरुकज्ञातम् मरुकज्ञातं चैतत्-नगरे पाटलीपुत्रे विप्र आसीत् त्रिलोचनः । वेदवेदाङ्गर्भार्थविशारदशिरोमणिः ॥१॥ तस्य पार्श्वे बटुः कोऽपि समायातः प्रणम्य तम् । उवाच मयका मोहात् परदाररतिः कृता ॥२॥ तस्य पापस्य मे शुद्धिः क्रियतां सोऽप्यभाषत । तद्भावस्य परीक्षार्थं यथा भो विप्रपुत्रक ! ॥३॥ तप्तां लोहमयीं नारीं फुल्लकिंशुकसन्निभाम् । आलिङ्गय यतो नान्यत् प्रायश्चित्तमिहागसि ||४|| तेनापि पापभीतेन प्रतिपन्नमिदं ततः । सोऽपि विज्ञाय तद्भावं शुद्धिमन्यां न्यवेदयत् ॥५॥ इति ।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy