________________
गाथा-५०-५२ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम्
२२९ इतरथा त्वन्यथा पुनः न श्रमणत्वं यतित्वम्, । अशुद्धभावादशुद्धाध्यवसायात् । हन्तेत्यामन्त्रणम्, विज्ञेयमवबोद्धव्य, लिङ्गेऽपि रजोहरणादौ सत्यपि, भावेनाभ्यन्तरपरिणामेन, सूत्रविरोधादागमविरोधाद् यतो यस्माद् भणितमुक्तम् ॥४९॥
सव्वेऽवि य अइयारा, संजलणाणं तु उदयतो होति । मूलच्छेज्जं पुण होति बारसण्हं कसायाणं ॥८४४॥ १७/५०
सर्वेऽपि चातिचाराः सर्वेप्यबाधाः सज्वलनानां तु सञ्चलनानामेव उदयतो विपाकाद् भवन्ति सञ्जायन्ते । मूलच्छेद्यं मूलप्रायश्चित्तछेद्यम्, चारित्रमिति गम्यते, पुनर्भवति द्वादशानां कषायाणामुदयत इति सम्बध्यते ॥५०॥ एवं च संकिलिट्ठा, माइट्ठाणंमि निच्चतल्लिच्छा । आजीवियभयगत्था, मूढा नो साहुणो णेया ॥८४५॥१७/५१
एवं चोक्तनीत्या, सक्लिष्टा द्वादशकषायोदयोदयवर्तिनः, मातृस्थाने मायास्थाने, नित्यतल्लिप्सा नित्यतत्पराः, आजीविकाभयग्रस्ता धनादिविरहिताः, कथं दुर्भिक्षादिषु वयं जीविष्याम इत्याजीविकाभयाभिभूतमानसाः । मूढा मोहवन्तो नो नैव साधवो भावसाधवो ज्ञेया ज्ञातव्याः ॥५१॥
संविग्गा गुरुविणया, नाणी दंतिंदिया जियकसाया । भवविरहे उज्जुत्ता, जहारिहं साहुणो होति ॥८४६॥ १७/५२
संविग्नाः संसारभीरवः तद्विरक्तत्वेन गुरुषु विनताः प्रणताः गुर्वनुकूलाः, ज्ञानिनः सम्यग्ज्ञानवन्तः । दान्तेन्द्रियाः जितेन्द्रियाः जितकषायाः निगृहीतक्रोधादयः, भवविरहे संसारविरहे, आत्मनः कर्तव्ये, उद्युक्ता उद्योगवन्तः, यथार्ह देशकालाद्यपेक्षया, साधवो भावसाधवो भवन्ति ॥५२॥
॥ सप्तदशं स्थितास्थितकल्पविधिप्रकरणं पञ्चाशकं समाप्तम् ॥