________________
२११
गाथा-२८-३० १६-प्रायश्चित्तविधि-पञ्चाशकम् ह्युभयाज्ञामवधार्य तथैव कथयति । (४) धारणा च धारणाव्यवहारो यैरसकृत्प्रायश्चित्तं गुरुभ्यः श्रुतं, देशकालाद्यपेक्षया च कृतम् । ते तथैवावर्धाय परस्यापि तथाविधद्रव्यादिषु प्रायश्चित्तसमापन्नस्य कथयन्ति, तेन तथाविधधारणागोचरोऽयम् । (५) जीतं च जीतव्यवहारः, पञ्चमकः, जीतं चिरन्तनमाचरितकल्प इत्यनर्थान्तरम्, सोऽप्यागमिकसमाचरितत्वात्, अनादिसंसिद्धजीतव्यवहारान्तःपातित्वाच्च प्रमाणभूत एव, तेन विना व्यवहारपञ्चकत्वस्यानुपपत्तेः ॥२६॥ __ एतदनुसारतः खलु पञ्चविधव्यवहारानुसारत एव, विचित्रमेतत्पारञ्चिकमिह वर्णितं कथितम् समय सिद्धान्ते । आसेवनादिभेदादासेवनाऽऽशातनाभेदात्, तत् पुनः पारञ्चिकं सूत्रादागमात्, ज्ञातव्यं विज्ञेयम् ॥२७॥ एयं च एत्थ तत्तं, असुहज्झवसाणओ हवति बंधो । आणाविराहणाणुगमेयं पि य होति ट्ठव्वं ॥७७२॥ १६/२८ सुहभावा तव्विगमो, सोऽवि य आणाणुगो णिओगेण । पच्छित्तमेस सम्मं, विसिटुओ चेव विण्णेओ ॥७७३॥ १६/२९ जुम्मं । [अथोक्त] प्रायश्चित्त(तद्दोषाविशुद्धिमुपदिशन्निदमाह -
एतच्चात्र दशविधप्रायश्चित्ते प्रस्तुते, तत्त्वं परमार्थः अशुभाध्यवसानतोऽशुभाध्यवसायाद्, भवति जायते, बन्धो जीवप्रदेशकर्मस्कन्धान्योन्यगमात्मकः क्षीरोदकवत् परस्परानुप्रवेशेन, आज्ञाया भगवद्वचनरूपाया, विराधनाऽन्यथात्वकरणम्, तामनुगच्छतीति-आज्ञाविराधनानुगम्, एतदपि चाशुभाध्यवसानपि च, भवति दृष्टव्यं विज्ञेयम् । नाऽऽज्ञाविराधनमन्तरेणाशुभाध्यवसानं सम्भवतीति भावः ॥२८॥
शुभभावाच्छुभाध्यवसायात्, तद्विगमः कर्मबन्धविगमः, सोऽपि च शुभभावः आज्ञानुगः आज्ञानुवर्तनपरः, तत्सहित इत्यर्थः । नियोगेन नियमेन, प्रायश्चित्तं दोषविशुद्धिहेतुः एष शुभभावः। सम्यगविपरीतं विशिष्टमेव विशिष्ट एव, न सामान्यरूपो, विज्ञेयो ज्ञातव्यः । प्रायश्चित्तक्रिया तु तदङ्गत्वेन कर्मक्षयार्थं वा ॥२९॥
प्रायश्चित्तकर्मण्यपि विशिष्ट एव शुभभावो दोषविशुद्धिहेतुः, न शुभभावमात्रमित्युपनिदर्शयन्निदमाह -
असुहज्झवसाणाओ, जो सुहभावो विसेसओ अहिगो । सो इह होति विसिट्ठो, न ओहतो समयनीतीए ॥७७४॥ १६/३० अशुभाध्यवसानात्दोषसमासेवनकालविषयात्, यःशुभभावस्तदुत्तरकालभावी, विशेषतो विशेषेण,