SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १८६ १४-शीलाविधि-पञ्चाशकम् गाथा-३१-३४ सत्थुत्तगुणो साहू, न सेस इति णे पइण्ण इह हेऊ । अगुणत्ता इति णेओ, दिटुंतो पुण सुवण्णं व ॥६७५॥ १४/३१ शास्त्रोक्तगुणः साधुर्न शेष इति इह नोऽस्माकं प्रतिज्ञा विप्रतिषेधाभ्याम्, इह हेतुरगुणत्वादिति ज्ञेयः, सगुणत्वादिति विधावक्षिप्तो दृष्टव्यः । दृष्टान्तः पुनयुक्तिसुवर्णवत्, सत्यसुवर्णवच्चेति विधौ ॥३१॥ सुवर्णगुणप्रतिपादनायाह - विसघाइ १ रसायण २ मंगलट्ठ ३ विणीए ४ पयाहिणावत्ते ५ । गरुए६ अडज्झ७ कुत्थे८, अट्ठ सुवण्णे गुणा होति ॥६७६॥ १४/३२ विषघाति विषं हन्तुं शीलमस्य रसायनं वयस्तम्भहेतुः, मङ्गलार्थं मङ्गलप्रयोजनम्, विनयवद्विनीतम्, मृदुत्वात् कार्यसौकर्योपपत्तेः । प्रदक्षिणावर्तमग्निप्रतप्त-प्रनृत्यदवस्थं पूर्वादिदिग्विभागेन प्रत्यावर्तते, गुरुकं सारत्वाद् भारवत्। अदाह्यमग्निना शुद्धम् , 'न दह्यतेऽग्नौ सुवर्णं नक्षीणम्'इति वचनात् । अविद्यमानकोथम् अकोथनं न शेषद्रव्यवत् कोथमुपैति, अष्ट सुवर्णे गुणा भवन्ति । तत्स्वरूपाव्यतिरेकवर्तिनः सदा तेषां तत्रोपलम्भात् ॥३२॥ साधुधर्मिण्यपि साधोः दृष्टान्तगतगुणसाम्यमाह - इय मोहविसं घायइ, सिवोवएसा रसायणं होति । .. गुणओ य मंगलटुं, कुणति विणीओ य जोग्गो त्ति ॥६७७॥ १४/३३ मग्गणुसारि पयाहिण, गंभीरो गरुयओ तहा होइ । कोहग्गिणा अडज्झो, अकुत्थो सइ सीलभावेण ॥६७८॥ १४/३४ इत्येवं मोहविषं चेतनापरिहारकारित्वात्, घातयति विनाशयति, साधुः शिवोपदेशान्मोक्षोपदेशाद् रसायनं भवति ।गुणतश्च ज्ञानादिगुणेभ्यः, मङ्गलार्थ मङ्गलप्रयोजनं करोति, विनीतश्च योग्य इति शिक्षादिसौकर्यात् ।।३३।। मार्गानुसारी क्षयोपशमविशेषात् । प्रदक्षिणो भवत्युनुकूलो धर्मकार्येषु । गम्भीरो गम्भीराशयो, गुरुकस्तथा भवति सारत्वात् नार्कतूलादिवदनवस्थितः, लघुनो हि द्रव्यस्येतश्चेतश्च प्रेरणं संभवति, नेतरस्य । क्रोधाग्निनाऽदाह्यः, शुद्धस्वरूपत्वात् । अकोथोऽपूतिभावः । सदा शीलभावेन सर्वदा चारित्रसद्भावेन ॥३४॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy