________________
गाथा - १८-२१
व्यतिरेकमाह
१४- शीलाङ्गविधि-पञ्चाशकम्
उस्सुत्ता पुण बाहति, समतिवियप्पसुद्धा वि नियमेणं । गीतणिसिद्धपवज्जणरूवा नवरं निरणुबंधा ॥ ६६२ ॥ १४ / १८
उत्सूत्रा सूत्रातिक्रान्ता, पुनर्बाधते विरतिभावमिति पूर्वेण सम्बन्धः । स्वमतिविकल्पशुद्धापि स्वोत्प्रेक्षितबुद्धिविकल्पशुद्धापि, प्रवृत्तिः नियमेनावश्यन्तया, गीतनिषिद्धप्रतिपादनरूपा गीतार्थ-निषिद्धप्रतिपत्तिरूपा । नवरं केवलं प्रवृत्तिरनभिनिवेशाद्धेतोः सामर्थ्यलब्धात् निरनुबन्धा कर्मानुबन्धरहिता ॥ १८ ॥
इयरा उ अभिणिवेसा, इयरा न य मूलछेज्जविरहेण । होएसा एत्तो च्चिय, पुव्वायरिया इमं चाहू ॥६६३॥ १४/१९
१८३
इतरा तु साभिनिवेशा, गीतार्थनिषिद्धप्रतिपत्तिरूपा, स्वमतिविकल्पशुद्धा चोत्सूत्रा प्रवृत्तिरभिनिवेशाद्धेतोः इतरा सकर्मानुबन्धा क्लिष्टाशयत्वात् । रागद्वेषमोहोत्कर्षे च स्वाग्रहोत्कर्षप्रवृत्तेः उक्तं च
-
राग द्वेषश्च मोहश्च, भावमालिन्यहेतवः ।
एतदुत्कर्षतो ज्ञेयो, हन्तोत्कर्षस्य तत्त्वतः [ अष्टकप्रकरण गाथा १७० ]
न च मूलोच्छेद्यविरहेण चारित्रमूलोच्छेद्यभावेन द्वादशकषायोदये मूलच्छेदविधानात् भवि सम्भवति एषा साऽभिनिवेशोत्सूत्रप्रतिपत्तिः । अत एवाभिनिवेशादेव पूर्वाचार्याः पूर्वसूरय [श्रीभद्रबाहुस्वामिमिश्रा - अटी. ] इदं च प्रस्तुतार्थसंवाद्येव आहुर्बुवते ॥१९॥
[तद्यथा]
गीयत्थो य विहारो, बीओ गीयत्थमीसओ भणितो । तो इयविहारो, नाणुण्णाओ जिणवरेहिं ॥ ६६४॥ १४/२०
गीतार्थश्च विहारो, यः केवलगीताथैरेवानुष्ठीयते, द्वितीयो गीतार्थमिश्रको भणित: यो गीतार्थाधिष्ठितैरगीतार्थैः क्रियते । अतो द्वयात्, तृतीयविहारोऽगीतार्थानामेव केवलानां यः स, नानुज्ञाता नानुमतः प्रतिषिद्ध इत्यर्थः, जिनवरैः सर्वज्ञैः ॥२०॥
गीयस्स न उस्सुत्ता, तज्जुत्तस्सेयरस्स वि तहेव ।
नियमेण चरणवं जं, न जाउ आणं विलंइ ॥ ६६५ ॥ १४ / २१
गीतस्य गीतार्थस्य नोत्सूत्रा प्रवृत्तिः, तद्युक्तस्य गीतार्थयुक्तस्य, इतरस्याप्यगीतार्थस्य तथैव