________________
गाथा-४९-५० ११-साधुधर्मविधि-पञ्चाशकम्
१५३ तम्हा जहोइयगुणो, आलयसुद्धाइलिंगपरिसुद्धो । पंकयणातादिजुओ, विण्णेओ भावसाहु त्ति ॥५४३॥ ११/४९
तस्माद्यथोदितगुणः शास्त्रोक्तगुणः, आलयशुद्ध्यादिलिङ्गपरिशुद्धः आलयविहारस्थानचक्रमण-भाषाविनयादिचिह्नविशुद्धः, पङ्कजज्ञातादियुतः पङ्कोत्पत्तिजलस्थितिभावेऽपि कामविषयलोकापेक्षया तद्वत्तदस्पर्शनेन, आदिशब्दात् शरत्सलिलगगनादिपरिग्रहः, विज्ञेयो ज्ञातव्यो भावप्रधानः साधुः भावसाधुरिति ॥४९॥ एसो पुण संविग्गो, संवेगं सेसयाण जणयंतो । कुग्गहविरहेण लहुँ, पावइ मोक्खं सयासोक्खं ॥५४४॥ ११/५०
एष पुनः संविग्नः संसारभीरुः, तद्विरक्तत्वात्, संवेगं संसारभयं मोक्षाभिलाषं वा । शेषा एव शेषकास्तेषां [आत्मनोऽन्येषां अटी.] जनयन् सम्पादयन् कुग्रहविरहेण कुत्सिताभिनिवेशत्यागेन लघु शीघ्रं यथा भवतीति क्रियाविशेषणम्, प्राप्नोति मोक्षं लभते अपवर्गम्, सदासौख्यम्॥५०॥
॥साधुधर्मविधिपञ्चाशकं एकादशं समाप्तम् ॥११॥