________________
१३२
१०-उपासकप्रतिमा-पञ्चाशकम् गाथा-१२-१६ सामाइयंमि उ कए, समणो इव सावओ जतो भणितो। बहुसो विहाणमस्स य, तम्हा एयं जहुत्तगुणं ॥४५६॥ १०/१२
सामायिके तु कृते प्रतिपन्ने, श्रमण इव तस्यामवस्थायां श्रावको गृही यतो भणितो यस्मादुक्तो बहुशोऽनेकशी विधानं क्रियारूपम् अस्य च सामायिकस्य, यतो भणितमिति वर्तते, तस्मादेतत् सामायिकं यथोक्तगुणं शास्त्रोक्तगुणं परमगुणस्थानरूपमित्यर्थः ॥१२॥ मणदुप्पणिहाणादी न होंति एयम्मि भावओ संते । सतिभावावट्ठियकारिया य सामण्णबीयं ति ॥४५७॥ १०/१३
मनोदुष्प्रणिधानादीनि आदिशब्दाद् वाक्कायपरिग्रहः, न भवन्ति न जायन्ते । एतस्मिन् सामायिके भावतो भावमाश्रित्य सति विद्यमाने, स्मृतिभावः स्मृत्यन्तर्धानपरिहाररूपः अवस्थितकारिता चानवस्थितत्वदोषपरिहारः श्रामण्यबीजमिति श्रमणभावबीजं प्रव्रज्यापरिणामकारणमित्यर्थः ॥१३॥
उक्तं सामायिकम्, अधुना पोषधमाह - पोसेइ कुसलधम्मे, जं ताऽऽहारादिचागणुटाणं । इह पोसहो त्ति भण्णति, विहिणा जिणभासिएणेव ॥४५८॥ १०/१४
पोषयति पुष्टि नयति कुशलधर्मान् कुशलव्यापारान् यद् यस्मात् तत् तस्माद् आहारादित्यागानुष्ठानमाहारादित्यागस्य विधानम् इह प्रक्रमे पोषध इति भण्यते । पोषं धत्ते पोषध इत्युच्यते विधिनोपायेन जिनभाषितेनैवाऽऽप्तोक्तेन ॥१४॥ निरूक्तमभिधाय भेदानाह - आहारपोसहो खलु, सरीरसक्कारपोसहो चेव । बंभव्वावारेसु य, एयगया धम्मवुड्ढि त्ति ॥४५९॥ १०/१५
आहारपोषधः खलु पूर्वोक्तः शरीरसत्कारपोषधश्चैव निर्दिष्टस्वरूप एव ब्रह्माव्यापारयोश्च ब्रह्मचर्यपोषधोऽव्यापारपोषधश्चेत्यर्थः । एतद्गताहारादिगता धर्मवृद्धिरिति धर्मपुष्टिरिति यावत् ॥१५॥
पोषधविवर्जनीयमाह - अप्पडिदुप्पडिलेहियसेज्जासंथारयाइ वज्जेति । सम्मं च अणणुपालणमाहारादीसु एयम्मि ॥४६०॥ १०/१६ अप्रत्यवेक्षित-दुष्प्रत्यवेक्षित-शय्या-संस्तारकं विवर्जयत्युपलक्षणत्वादप्रत्यवेक्षित