________________
गाथा-३६-३९ ९-यात्राविधान-पञ्चाशकम्
१२५ कार्तिककृष्णे चरमाऽमावास्या, गर्भादिदिनानि यथाक्रमानुपूव्र्यैतानि। हस्त उत्तरो यासां ता हस्तोत्तरा उत्तराफाल्गुन्यः ताभिर्योगश्चन्द्रमस इति गम्यते तेन हस्तोत्तरयोगेन चत्वारो दिवसा तथा स्वातिना स्वातिनक्षत्रेण चरमो दिवसो युक्त इति गम्यते ॥३५॥
अहिगयतित्थविहाया, भगवंति णिदंसिया इमे तस्स । सेसाण वि एवं चिव, णियणियतित्थेसु विण्णेया ॥४३०॥ ९/३६
अधिकृततीर्थस्य विधाता भगवानिति निदर्शितानीमानि तस्य दिनानीति सम्बध्यते । शेषाणामपि तीर्थकृताम् एवमेव निजनिजतीर्थेषु विज्ञेयानि।संस्कृते दिनशब्दः पुल्लिङ्गोऽप्यस्ति, तदनुरोधेनापि ग्रन्थो नेयः ॥३६॥
किमित्येवं विधानमुपदिश्यत इत्याह [गाथायुगलेन] - तित्थगरे बहुमाणो, अब्भासो तह य जीयकप्पस्स । देविंदादिअणुगिती, गंभीरपरूवणा लोए ॥४३१॥ ९/३७ वण्णो य पवयणस्सा, इयजत्ताए जिणाण नियमेणं । मग्गाणुसारिभावो, जायइ एत्तो च्चिय विसुद्धो ॥४३२॥ ९/३८ जुग्गं ।
तीर्थकरे बहुमानो भावविशेषः, अभ्यास आम्नायः तथा च जीतकल्पस्याचरितकल्पस्य देवेन्द्राद्यनुकृतिर्देवासुरेन्द्राद्यनुकरणम्, तद्वत्प्रवृत्तिरनुकारः, गम्भीरप्ररूपणा लोके उत्तमाऽऽसेवितोऽयं धर्मः कथमन्यथेदृशी सत्प्रवृत्तिः ॥३७॥
वर्णश्च प्रशंसा च वर्णवाद इत्यर्थः । प्रवचनस्य 'समान्यस्य इतियात्रया एवंविधयात्रया जिनानां सम्बन्धिनां क्रियमाणया नियमेनावश्यंभावेन, मार्गानुसारीभावो जायते सम्पद्यते । अत एव बहुमानादिगुणसमूहादेव जिनयात्रात एव वा विशुद्धो निष्कलङ्कः ॥३८॥ (१. समान्यस्यसुष्ठु मान्यस्य।) तत्तो सयलसमीहियसिद्धी णियमेण अविकलं जं सो।
कारणमिमीऍ भणिओ, जिणेहिं जियरागदोसेहिं ॥४३३॥ ९/३९ ___ ततो मार्गानुसारिभावात् सकलसमीहितसिद्धिः सर्वेष्टफलनिष्पत्तिः, नियमेन नियमात् । अविकलं परिपूर्णम् । यद् यस्मात् स मार्गानुसारिभावः । कारणं हेतुः अस्याः सकलसमीहितसिद्धेः भणित उक्तः जिनर्भगवद्भिः जितरागद्वेषैर्जितमोहविकारैः ॥३९॥