________________
१००
७-जिनभवनविधि-पञ्चाशकम् गाथा-३४-३८ एवं च होति एसा, पवित्तिरूवा वि भावतो नवरं । अकुसलनिवित्तिरूवा, अप्पबहुविसेसभावेणं ॥३२८॥ ७/३४
एवं चोक्तनीत्या भवत्येषा यतना प्रवृत्तिरूपाप्याथारम्भद्वारेण हिंसाप्रवृत्तिस्वभावा अपि भावतः परमार्थेन नवरं केवलम् अकुशलनिवृत्तिरूपाधिकारम्भनिवृत्तिस्वभावा अल्पबहुविशेषभावेन प्रवृत्त्यल्पत्वविशेषलक्षणेन ॥३४॥ ....---... --
एत्तो चिय निदोसं, सिप्पादिविहाणमो जिणिंदस्स । लेसेण सदोसं पि हु, बहुदोसनिवारणत्तेण ॥३२९॥ ७/३५
अत एव अधिकदोषनिवृत्तिः निर्दोषं निरवद्यतौचित्येन शिल्पादिविधानं शिल्पाद्युपदेशो, मो इति निपातः । जिनेन्द्रस्य आदिदेवस्य लेशेन मात्रया सदोषमपि, हुशब्दो वाक्यालङ्कारे । बहुदोषनिवारणत्वेनाधिकरागद्वेषप्रवृत्तिनिवर्तकत्वेन ॥३५॥
ननु तस्यैव कथञ्चित्सदोषवस्तुप्रवर्तने कथमदोष इत्याह - वरबोहिलाभतो सो, सव्वुत्तमपुण्णसंजुओ भयवं । एगंतपरहितरतो, विसुद्धजोगो महासत्तो ॥३३०॥ ७/३६ जं बहुगुणं पयाणं, तं नाऊणं तहेव दंसेइ । ते रक्खंतस्स ततो, जहोचियं कह भवे दोसो ? ॥३३१॥ ७/३७ जुग्ग।
वरबोधिलाभतस्तीर्थकरजीवप्रधानबोधिलाभात् । स आदिदेवः सर्वोत्तमपुण्यसंयुक्तो भगवान एकान्तपरहितरत एकान्तेनैव परहितप्रवृत्तः, विशुद्धयोगो विशुद्धमनोवाक्कायव्यापारः, महासत्त्व उत्तमसत्त्वः ॥३६॥
यद् बहुगुणं प्रजानां प्राणिनां सामान्येन तज्ज्ञात्वा तथैव दर्शयति प्रकाशयति, तान् प्रजा [शब्दपर्यायान् लोकान् अटी.] रक्षतःसतः ततस्तस्माच्छिल्पादिविधानाद्वा यथोचितं पालयतः कथं भवेद्दोषो भगवतो नैव कथञ्चित्, प्राणिबहुगुणदर्शनप्रवृत्तत्त्वात्तस्य ॥३७॥
ननु च तत्रापि शिल्पादिविधाने परिदृष्टारम्भदोषो विद्यत एव, तमन्तरेण शिल्पाद्ययोगादित्याशङ्क्याह - तत्थ पहाणो अंसो, बहुदोसनिवारणाउ जगगुरुणो । नागाइरक्खणे जह, कड्डणदोसे वि सुहजोगो ॥३३२॥ ७/३८