SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ गाथा- ४९-५० ५- प्रत्याख्यानविधि-पञ्चाशकम् पुनरपि प्रत्याख्यानस्य निर्विषयतापरिहारार्थमाह - ओहेणाविसयं पि हु, न होइ एयं कहंचि नियमेण । मिच्छासंसज्जियकम्मओ तहा सव्वभोगाओ ॥२४३॥ ७७ ५/४९ ओघेन सामान्येन अविषयमपि विषयरहितमपि । हु शब्दो वाक्यालङ्कारे । न भवत्येतत् प्रत्याख्यानम्, किन्तु स्वविषयमेव न कथञ्चित् केनचित् प्रकारेण कर्मवैचित्र्यलक्षणेन । नियमेनावश्यंतया । कुत इत्याह- मिथ्यासंसज्जितकर्मतस्तथा सर्वभोगात् । मिथ्याभावेन संसज्जितम्, आसज्जितम् परिप्रापितम् जीवप्रदेशेषु यत्कर्म तत्तथोच्यते । इदमुक्तं भवति जीवेन ह्यनेकविधानि कर्माण्यनेकफलानि विहितानि, तद्विपाकदोषाद् अनिच्छन्नपि सर्वं वस्तूपनतमुपभुङ्क्तेऽनाभोगात् । तेन सर्ववस्तुविषयसम्भोगसम्भवमाकलयद्भिः सर्वमेव वस्तु प्रत्याख्यानस्य विषयीक्रियते । तेनैकान्तविषयं तं (तद्) न भवति ॥४९॥ ( १. संसंजित अटी.) ननु यद्यैवं स्वकृतकर्मफलविपाकमनुभवद्भिः प्राणिभिः सर्वमेव वस्तुविषयीकृत्य प्रत्याख्यानं क्रियते, ततो विरतिभङ्गः स्यात् कर्मण्यन्यथावेदनाद्वा । स्वफलदानासामर्थ्यम्, तत्र विरतिपक्षे कर्मण उपक्रमणीयस्वभावत्वेनान्यथावेदनेऽपि प्रत्याख्यानं सफलमुपदर्शयन्नाह - विरती संवेगा तक्खयओ भोगविगमभावेण । सफलं सव्वत्थ इमं, भवविरहं इच्छमाणस्स ॥ २४४ ॥ ५/५० विरतौ सत्यां विरतेर्वा संवेगाद्धेतोस्तत्क्रियते । मिथ्यासंसज्जितकर्मक्षयतः संवेगस्याचिन्त्यसामर्थ्य-समन्वितत्वेन भोगविगमभावेन पूर्वमिथ्याकर्मपरिप्रापितभोगफलपरिक्षयसद्भावेन फलभावेन इति यावत् । सफलं विद्यमानफलं प्रत्याख्यातुः सर्वत्र द्रव्यक्षेत्रकालादौ इदं प्रत्याख्यानं भवविरहम् संसारविरहं इच्छतः सतः साधोरन्यस्य वा ॥५०॥ (१ इच्छमाणेणं जे.) ॥ प्रत्याख्यानविधि-पञ्चाशकं पञ्चमं सम्पूर्णम् ॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy