SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ 25ESE पशानां महोपकारिणां पावने पादपद्मे प्रणमनं कृतज्ञभावप्रकटनं च * जिनशासनशिरोरत्नानां संयमत्यागतपोमूर्तीनां गुरुप्रदत्त-सिद्धान्त महोदधिसार्थकोपाध्युपेतानां कर्मशास्त्ररहस्यवेदिनां मां संसारसागरादुद्धारकाणां पूज्यपादानां परमगुरुदेवानां श्रीमद् विजयप्रेमसूरीश्वराणां पादारविन्दं तेषामनन्तोपकारभारं वहन्नहं मन-वचन-कायैः प्रणमे। जिनशासनपरमप्रभावकाणां व्याख्यानवाचस्पतीनां लोकोत्तरागणितगुणरत्नरत्नाकराणां षण्णवतिवर्षायुष्मतामेकोनाशीतिवर्ष-संयमपर्याय-षट्पञ्चाशद्वर्षाचार्यपदपर्यायधारकाणां तपोगच्छाधिपतीनां पूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वराणां पावनं पदकमलं कृतज्ञोऽहं प्रवन्दे । मूढचेतसं मां सम्यग्ज्ञानदानं कृत्वाऽऽन्तरलोचनोद्धाटकानां प्रभावकप्रवचनकाराणां परमतपोनिधीनां परमोपकारिणां ज्ञानदिवाकराणां न्यायविशारदानां प्रगुरूदेवानां श्रीमद्विजयभुवनभानुसूरीश्वराणां पावनचरणयुगलं सहर्षं प्रणौमि। अध्यात्मयोगिनां प्रशान्तमूर्तीनां अजातशत्रूणां भावनाज्ञानभावितान्त:करणानां तत्त्वसंवेदनज्ञानसुधापानपुष्टानां ममानुपमं योगक्षेमकारकाणां भावनाज्ञानतत्त्वसंवेदनज्ञानांशदानेनानुपमं परार्थं कृतवतां स्वर्गतपूज्यपादानां पंन्यास प्रवरश्रीभद्रंकरविजयगणिवरनामधेयानां पवित्रक्रमयुग्मं भूरिभावेन विनमामि। * चारित्ररत्नानां ज्ञाननिधीनां वात्सल्यमूर्तीनां राजरोगासह्यपीडायामपि स्मारितपूर्वमुनिप्रशमरसपयोनिधीनां परमगुरुभक्तानां विशालगच्छगताबालवृद्धमुनिवृन्दयोग-क्षेमकारकाणां गुरुकुलवासेन धन्यता प्राप्तानां शिष्यलेशं मां ग्रहणासेवनशिक्षादायकानां मद्गुरुवर्याणां स्वर्गीयपूज्यपादानां पंन्यासप्रवराणां पद्मविजयगणिवराणांक्रमयमलं सानन्दं सहृदयं प्रणमामि। - सबहुमानं प्रवन्दकाचार्यविजयमित्रानन्दसूरिः ।
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy