SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ॥२॥ द्वितीया द्वात्रिंशिका मंगलाचरणम् - श्रीमच्छंखेश्वरं पाश्र्वं, शंखेश्वरपुराधिपम्। कलौ कल्पतरूं मन्ये, सिद्धिदं स्तौमि भावतः ॥१॥ श्रीमज्जिनेन्द्रशासन - सम्राजं शीलनिर्मलम् । विजय प्रेमसूरीशं, वन्दे संसारतारकम् महाप्रभावकं वन्दे, शासनस्य धुरन्धरम् । तपोगच्छाधिपं भक्त्या, रामचन्द्रं सूरीश्वरम् ॥३॥ महातपस्विनं वन्दे, शास्त्रसागरपारगम् । भुवनभानुसूरीशं, प्रेमपट्टप्रभावकम् ॥४॥ सच्छिष्यं पद्मनामानं, मद्गुरुं गुणशालिनम् । पंन्यासप्रवरं पूज्यं, वन्दे वात्सल्यसागरम् ॥५॥ नत्वा च भारती कुर्वे, बालानां बोधदायिनीम् । .. अध्यात्मबिन्दुग्रन्थस्य, टीकां पद्मप्रभाभिधाम् ॥६॥ पाठकप्रवरैर्हर्ष - वर्धनैर्ग्रथिता वरा । द्वात्रिंशिकाचतुष्टयी, तत्त्वनिस्यन्दस्यन्दिनी ॥७॥ स्वोपज्ञवृत्तिसंयुक्तां, प्रथमां तां विहाय च । द्वात्रिंशिकात्रयस्यैव, पञ्जिकां विवृणोम्यहम् ॥८॥
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy