SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २४ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा वर्णादयः सन्ति, तथापि देहात्मनोः समावर्तितावस्थायां कनक-कलधौतयोरिव परमार्थत एकार्थत्वानुपपत्तावपि व्यवहारमुग्धानां पृथक् स्वलक्षणानिर्ज्ञानाद् एकत्वाध्यासेन जीवस्यैते वर्णादय इति मतिराविरस्ति । तन्मूलं च शरीरसम्बन्धः एवेति एवकारेण, 'मुष्यते एष पन्थाः' इतिवत् "तात्स्थ्यात् तदुपचारः" [ ] इति न्यायेन बन्धपर्यायेणावस्थितस्य वपुषो वर्णादयो जीवे व्यवह्रियन्ते न तु परमार्थतोऽमूर्तस्यासाधारणचैतन्यसर्वस्वस्य जीवस्य सन्ति केचन वर्णादय इति द्योत्यते। कस्मिन् क इव? जाम्बूनदादेरुपधेः सकाशाद्वैशद्यभाजि स्फटिके तरङ्गा इव । यथा प्रकृत्या स्वच्छस्फटिकमणेर्जाम्बूनदाधुपाश्रयवशात् स्वच्छताविकारमात्रेण भाव्यमानाः पीततादिवर्णोर्मयो न नाम स्वरूपभूतास्तद्वद् आत्मनोऽपीति भावः । एवं चैतद् अप्रतिबुद्धोक्तं समाहितं दृष्टव्यम् - जीवो भवेनैव यदा शरीरं तीर्थङ्कराचार्यनुतिस्तदानीम् । सर्वापि मिथ्यैव भवेत् ततो हि देहात्मनोः साधुरभेद एव ॥ तथाहिवक्त्रं पूर्णशशाङ्ककान्तममलं स्वान्तं प्रशान्तं वपु नेत्रे नीलसरोजपत्ररुचिरे वाणी सुधासारणी। दीप्तिर्यस्य च चण्डरुप्रभृतिसज्ज्योतिष्मतां जित्वरी __भव्यान् पातु स विश्वविश्रुतयशास्तीर्थेशभट्टारकः ॥ इत्यादिका व्यवहारस्तुतिरेव आत्मस्वरूपबोधकविशेषणालाभात् वक्त्र-स्वान्तादीनां पौद्गलिकत्वात् । तर्हि कीदृशी निश्चयस्तुतिरिति चेत् - मोहं विजित्य करणानि च संनिरुध्य यो भावयत्यपमलं परमात्मतत्त्वम् । साक्षात्कृताखिलपदार्थमपार्थितोद्यत् - कर्मप्रपञ्चमवतात् स जिनेन्द्रदेवः ॥ इत्यादिकेति प्रतीहि ॥१७॥ अथ रागादिपरिणामेऽपि नासौ स्वरूपं प्रोज्झतीत्याविर्भावयति - स्फटिकमणिरिवायं शुद्धरूपश्चिदात्मा, भजति विविधभावं द्वेष-रागाधुपाधेः । यदपि तदपि रूपं नैव जाहात्ययं स्वं, न खलु भवति चान्द्री ध्वान्तरूपा मरीचिः ॥१८॥ १ चण्डरुक् सूर्यः।
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy