SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ अध्यात्मबिन्दुः ११० शुद्धं ब्रह्मेति संज्ञानसुधाकुण्डसमाप्लुताः । धौतकर्ममलाः सन्तो निर्वृतिं परमाश्रिताः स्वरूपालम्बनान्मुक्तिर्नान्यथाऽतिप्रसङ्गतः । अहमेव मयोपास्यो मुक्तेर्बीजमिति स्थितम् यथैव पद्मिनीपत्रमस्पृष्टं तोयबिन्दुभिः । तथाऽऽत्माऽयं स्भावेन न स्पृष्टः कर्मपुद्गलैः सौख्यं सांसारिकं दुःखानुषक्तं व्यक्तमध्वनि । ग्रीष्मे पान्थस्य मध्याह्ने मरौ पक्त्वैव खादतः भोगेष्वश्रान्तविश्रान्तिर्धियः क्षेमङ्करी न हि । पन्नगीव नयत्येषाऽतुच्छं मूर्च्छा यदात्मनः यदुच्चैः पदतः पातः सोऽनुभावो विभावजः । तत्रैवाविरतं सति श्रयन्त्रद्यापि खिद्यसे नाहं वपुष्मान् न च मे वपुर्वा बोधोऽहमस्मि प्रकृतेर्विभिन्नः । इयाननेहा न मया व्यभावि गच्छन्नहो ! मोहविडम्बितेन ॥२४॥ प्रकृतिगुणविरक्तः शुद्धदृष्टिर्न भोक्ता तदितर इह भोक्ता तत्स्वरूपानुरक्तः । तदिह भवति भेदाभ्यासशाली जयीति प्रकृतिगुणविकारानङ्कितं स्वं भजध्वम् ॥२५॥ ॥२६॥ ॥२७॥ ॥२८॥ वपुष्यहंधीनिगडेन कामं चिराय बद्धोऽसि महानुभाव ! । बोधस्वरूपोऽयमहं न देही-त्यवेत्य तं चिद्गुघणेन भङ्गिध ॥३०॥ ॥२९॥ ॥३१॥ ॥३२॥ [ चतुर्थी
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy