SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ हर्षवर्धनोपाध्यायनिबद्धः [प्रथमा यवैचित्र्याभावात् संसारस्यैवाभावः स्यात् । निष्परिणामत्वे गगनकुसुमवदवस्तुत्वापत्तेश्च । 'वस्तु चन विक्रियते च' इति गाढशपथप्रत्याय्यत्वात् दृश्यमानगोरसादिपरिणामविरोधाच्च । एकान्तनित्यत्वे कृतनाशाकृताभ्यागमादिदोषप्रसङ्गात् पुण्य-पाप-बन्ध-मोक्षाभावश्च प्रसज्येत । अथ यदि कर्मसंसर्गात् तथा परिणमति तत् किं स्वयमपरिणममानः परिणममानो वा? न तावदपरिणममानः परेण परिणमयितुं पार्येत। न हि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यते" [ ]। परिणममानस्तु न परं परिणमयितारमपेक्षते । न हि वस्तुशक्तयः परमपेक्षन्ते । ततो जीवः स्वयं परिणामस्वभावः स्वीकर्तव्यः । एवं स्वयं सिद्धपरिणामस्वभावो जीवः कर्मणः समवधानात् पारावार इव पवमानसंसर्गात् क्रियावान् भवतीति भावः । ॥३॥ अथैकमेव जीवद्रव्यं परिणामस्वभावत्वात् तिर्यगादिनानावस्थान्तरभाग भवतीत्यभिधीयते कुम्भोदञ्चनवर्द्धमानकरकस्थाल्याद्यवस्थान्तरा __ण्येकोऽपि ध्रुवमम्बुयोगवशतो मृद्व्यपिण्डोऽश्नुते । तद्वत् कर्मजलीययोगमुपलभ्यात्माऽपि तिर्यड्नरा मर्त्यप्रेतपुरोगजातिनिकरत्वेन स्वयं जायते ॥४॥ व्याख्या - एकोऽपि मृद्रव्यपिण्डः अम्बुयोगवशतः पानीयसम्बन्धात् कुम्भश्च घटः, उदच्यते जलमनेनेति उदञ्चनं च पिधानम्, वर्द्धमानश्च शरावः, करकः चलुः, स्थाली च उखा - तदादीन्यवस्थान्तराणि पर्यायभेदाद् अश्नुते प्राप्नोति तद्वद् आत्माऽपि कर्मजलस्यायं कर्मजलीयः स चासौ योगश्च सम्बन्धः तमुपलभ्य तिर्यड्नरामर्त्यप्रेतपुरोगजातिनिकरत्वेन स्वयं जायते संपद्यते। भावार्थस्त्वयम्-परिणामस्वभावो जीवः कर्मसंसर्गात् क्रियावान् भवतीति प्राक् प्रतिपादितम् । परिणामश्च तद्भावलक्षणः, तद्भावः परिणामः' [तत्त्वार्थसूत्र ५.४१] इत्युक्तेः। भवनं भावः आत्मलाभः, परिणामः पर्याय इति यावत्, यदित्यनेन द्रव्यषट्कमभिसम्बध्यते, तदेव हि द्रव्यजातं गति-स्थित्यवगाह-व्यणुकादिस्कन्ध-ज्ञानादि-समयादीनां तेन तेन रूपेण भवति, न कूटस्थमवतिष्ठते, न सर्वथोत्पद्यते, नापि सर्वथोच्छिद्यते, किन्त्वन्वयिरूपं सत्त्वमजहदेव तथा तथा विवर्तते । तथाहि-द्रव्यं हि ध्रौव्यरूपामन्वयशक्तिमपरित्यजद् भवति सदेव, यत्तु तस्या व्यतिरेकव्यक्तेः प्रादुर्भावस्तस्मिन्नपि द्रव्यत्वभताया अन्वयशक्तेप्रच्यवनाद द्रव्यमनन्यदेव, ततोऽनन्यत्वेन निश्चीयते द्रव्यस्य सदुत्पादः । एवं च यथाऽनेकासु कुम्भादिव्यतिरेकव्यक्तिषु अन्वयशक्तिमपरित्यज्य सङ्क्रामन् मृद्रव्यमेवैकं नानावस्थान्तरभाक् तथा जीवोऽपि १ द्रव्यभूतमे० ला प्रतौ।
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy