SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १०४ अध्यात्मबिन्दुः [चतुर्थी ॥७॥ ॥८ ॥ ॥९॥ आत्मस्वरूपं पररूपमुक्तमनादिमध्यान्तमकर्तृभोक्तु । चिदङ्कितं चन्द्रकरावदातं, प्रद्योतयन् शुद्धनयश्चकास्ति तीर्थप्रवृत्त्यर्थमयं फलेग्रहिस्त्रिकालविद्भिर्व्यवहार उक्तः । परःपुनस्तत्त्वविनिश्चयाय नयद्वयात्तं हि जिनेन्द्रदर्शनम् ये यावन्तो ध्वस्तबन्धा अभूवन् भेदज्ञानाभ्यास एवात्र बीजम् । नूनं येऽप्यध्वस्तबन्धा भ्रमन्ति तत्राभेदज्ञानमेवेति विद्मः भेदज्ञानाभ्यासतः शुद्धचेता नेता नाऽयं नव्यकर्मावलीनाम् । लीनां स्वस्मिन् नामयंस्तां नितान्तं तान्तं स्वीयं रूपमुज्जीवयेत अज्ञानतो मुद्रितभेदसंविच्छक्तिः किलायं पुरुषः पुराणः । परात्मनोस्तत्त्वमसंविदानः कर्तृत्वमात्मन्यसकृत् प्रयुक्ते स्वतोऽन्यतो वाऽप्यधिगत्य तत्त्वं यदेष देवः किल संप्रबुद्धः। द्रव्यं परं नो मम नाहमस्येतीयर्ति बुद्धि यदि बध्यते किम् ? प्रमाण-निक्षेप-नयाः समेऽपि स्थिताः पदेऽधः किल वर्तमाने । ॥१०॥ ॥११॥ ॥१२॥
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy