SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ १०२ [चतुर्थी अध्यात्मबिन्दुः प्रशस्तिः ॥३॥ ॥५॥ वन्दे वीरविभुं भक्त्या, चरमं जिनबान्धवम् । शासनं स्थापितं येन, तत्त्वातत्त्वविवेचकम् ॥१॥ विभूषितं प्रभोः पढें, सूरिसूर्यनिरन्तरम् । क्रमानुक्रमतः पट्टे, आगता भूरिसूरयः ॥२॥ पञ्चसप्ततिपट्टे वै, दानसूरीश्वरा वराः । सकलागमनिस्यन्दान्, जानन्तो ये प्रभास्वराः प्रदत्ता मुनिचर्या यैः, कठोरा गच्छनायकैः । भीमकान्तगुणाभ्यां ये, योगक्षेमकराः पराः ॥४॥ युग्मम् । पट्टपूर्वाचले तेषां, भासमानाः सुमित्रवत् । कर्माशास्त्रेषु निष्णाता, गुरवः प्रेमसूरयः तेषां वरदहस्तेन, दीक्षितेन तथैव च। शिक्षितेन मुनिचाँ, मित्रानन्देन सूरिणा अध्यात्मबिन्दुग्रन्थस्य, कृता टीका सुधोपमा । प्रगुरुभुवनभानु-सूरीणां प्रतपस्विनाम् । ॥७॥ मद्गुरूणां च पद्मति, नाम्नां कारुण्यभावतः । सरस्वतीप्रसादेन, भव्येन भद्रकारिणा ॥८॥ युग्मम् । श्रीरामचन्द्रेति मुनीश्वराणां, प्रभावकाणां च प्रबोधकानाम् । दिव्याशिषा या प्रगता समाप्ति, ग्रन्थस्य टीका सुखदा सुबोधा ॥९॥ तुलाश्रवाम्बरदन्ते (२०५७) वैक्रमीये तु चाश्विने । शुक्ले पक्षे च सप्तम्यां, संपूर्णा भोमवासरे ॥१०॥ ॥६॥
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy