________________
६६]
[विवेकमञ्जरी अथ सनत्कुमारगुणसारमसमानमनुमोदन्नाह - सु च्चिय सणंकुमारो सलहिज्जइ जो तहा समत्थो वि । मोत्तूण दव्वरोगे चिगिच्छगो भावरोगाणं ॥३०॥ [स एव सनत्कुमारः श्लाघ्यते यस्तथा समर्थोऽपि ।
मुक्त्या द्रव्यरोगांश्चिकित्सको भावरोगाणाम् ॥] व्याख्या – 'सुच्चिय' स एव 'सणंकुमारो' सनत्कुमारनामा राजर्षिः 'सलहिज्जइ' श्लाघ्यते स्तूयते। 'जो तहा समत्थो वि' यस्तथा तेन जय-विजयवैमानिकसुरपुरतः करकनिष्ठाङ्गलीपुनर्नवीकरणरूपिणा प्रकारेण समर्थोऽपि खेलौषधीप्रभृतिलब्धिरत्नाब्धिरपि 'मुत्तूण दव्वरोगो' द्रव्यरोगान् कासकुष्ठादीननेकशो 10 मुक्त्वाऽवधीर्य 'चिगिच्छगो' विचिकित्सकः । केषाम् ? 'भावरोगाणं' भावरोगाणां दुष्कर्मणामिति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - $$ स्वस्तिभागस्ति कनकपुरं पुरमिवामरम् ।
विक्रमी विक्रमयशास्तत्राजनि रसापतिः ॥१॥ पञ्च तस्यासन राज्यः स्त्रीरसिकात्मनः । तथाप्यतृप्ततस्ताभ्योऽग्नि समिद्भ्य इव सोऽभवत् ॥२॥ एकदाऽसौ व्रजन् राजपाटिकायामलोकत । विष्णुश्रियं गवाक्षस्थां नागदत्तेभ्यवल्लभाम् ॥३॥ श्रीधाम्नोऽस्य प्रविश्यान्तः सा मोहतिमिरोदये । प्राणेन पञ्चबाणस्य चित्तरत्नमचूचुरत् ॥४॥ कामादात्मसनाभेस्तां विदित्वा चित्तचौरिकाम् । वृत्ताक्षेपेण चिक्षेपान्तःपुरे पृथिवीपतिः ॥५॥ अलङ्कारान्वितां बाहुपाशबद्धामिमामयम् । चकार विलसद्भूति महत्कूटाश्रयात् ततः ॥६॥