SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे भरतकथा ] मूलतोऽपि न यैर्दृष्टस्तेऽस्मत्तोऽतिवरं प्रभो ! | अदृष्टऽर्थे न तद् दुःखं दृष्टनष्टे हि यद् भवेत् ॥८२॥ बन्धवोऽप्यनुगन्तारस्त्वाममी मम सर्वथा । एक एवाहमत्रास्मि त्वया पङ्क्तिबहिष्कृतः” ॥८३॥ भूत्वापि तत्सुतश्च किमिति शोकवशंवदः । अपि मुक्तिपदप्राप्तं किं व्रीडयसि तं प्रभुम् ? ॥८४॥ नृपः प्रलापान् कुर्वाणः स्वयं गीर्वाणभूभुजा । इत्थं प्रबोधितः स्तोकशोकशङ्कुर्बभूव सः ॥८५॥ युग्मम् ॥ $$ " अथादिनाथतज्जातीतरसिद्धाङ्गसंस्कृतिम् । यथाविधि विधायेन्द्रास्तत्र स्तूपत्रयं व्यधुः ॥८६॥ ततश्चाष्टाहिकां नन्दीश्वरे कृत्वाऽऽश्रयं गताः । न्यस्य माणवकस्तम्भे विभुदंष्ट्रामपूपुजन् ॥८७॥ भरतोऽपि विभोरङ्गसंस्कारासन्नभूतले । त्रिगव्यूतोन्नतं चैत्यं चक्रे योजनविस्तृतम् ॥८८॥ तत्र चैत्ये चर्तुद्वारे प्रतिद्वारं स मण्डपान् । विचित्रान् सूत्रयामास मणिभिर्मांसलप्रभैः ॥८९॥ प्रत्येकं तत्पुरः प्रेक्षामण्डपांश्चतुरो व्यधात् । अक्षपटक चैत्यद्रुपीठपुष्करणीयुतान् ॥९०॥ तं गिरिं दण्डरत्नेन समीकृत्य स तेनिवान् । सोपानैर्योजनोच्छ्रायैरष्टाभिः परिवेषितम् ॥९१॥ लोहयन्त्रमयानेष्यज्जनाशातनशङ्कया । रक्षकानार्षभिस्तत्राकार्षीदुद्गीर्णमुद्गरान् ॥९२॥ तस्य सिंहनिषद्याख्यप्रासादस्य च मध्यतः । देवच्छन्दं व्यधाच्चकी रत्नपीठप्रतिष्ठितम् ॥९३॥ [ ६१ 5 10 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy