________________
४२]
[विवेकमञ्जरी
परितोऽपि निभालयन्नयं वचनागोचरमत्र वैभवम् । पुरवासिभिरुन्मुखो निरेक्ष्यत विक्रीतजनादिवोद्धृतः ॥१०॥ घटिकागृहमेत्य भूपतेः क्षणमुत्तीर्य रथादथास्थित । स निजेश्वरवाचिकं तथाद्भुतवीक्षाविगत स्मरन्निव ॥११॥ अथ संसदि स प्रवेशितः प्रतिहारेण नृपस्य शासनात् । मणिकुट्टिमसंभृताम्भसंभ्रमसंकोचितचीरपल्लवः ॥१२॥ तरणेरिव तेजसा हरेरिव लक्ष्म्याऽहिपतेरिवौजसा । इह बाहुबलेः क्षितीशितुः प्रणिपत्यैष पुरो निविष्टवान् ॥१३॥ मुखपद्मनिविष्टभारतीकरवीणाक्वणकेलिबान्धवीम् । इति वाचमुवाच विस्मितद्युतिसच्चामरवीजितां नृपः ॥१४॥ अयि शंस सवेग ! वेगतः कुशली साम्प्रतमग्रजो मम । अयि तेन च शासिताः प्रजाः कुशलिन्यो गुरुसम्पदश्च ताः ? ॥१५॥ अजितस्य च राज्यमुन्नतिं भजतेऽङ्गेषु सदैव सप्तसु । अपि भारतभूमिमण्डलं कुशलेनैष जिगाय वाऽखिलम् ? ॥१६।। अयि भूमिभुजोऽग्रजेन मे विर्जितावर्जितदासिताः क्रमात् । न भवन्ति विषादभाजनं दधतोऽप्यस्य सदैव शासनम् ? ॥१७॥ समशीर्षिकया प्रवर्धिसद्भुवनानामनुरागवैभवैः । अयि तस्य न बाधते क्वचित् पुरुषार्थत्रितयं परस्परम् ? ॥१८॥ इति वाचमुदीर्य भूपतौ स्थितिमासेदुषि सोऽब्रवीत् पुनः । कुशलं क्व नु तस्य पृच्छ्यते कुशलं हन्त भुवोऽपि यः स्वयम् ।।१९।। अपि चाकुशलं प्रजासु तास्वथ राज्ये क्व नु तत्र संभवेत् ? । ननु यत्र समस्ति शास्तिकृद् द्विषदाक्रान्तिगजस्तवाग्रजः ॥२०॥ ननु तिष्ठतु वीरमण्डलीजयिनो दिग्विजये पुरोऽस्य कः । क्रमते तिमिरस्य विक्रमः कुत एव प्रतपत्यहर्पतौ ? ॥२१॥