________________
[२३
10
गुणानुमोदनाद्वारे भरतकथा]
भरताय कला बाहुबलयेऽश्वादिलक्षणम् । ब्राह्मयै लिपीरपीक्ष्वाकुः सुन्दर्यै गणितं ददौ ॥४६।। सदानक्षत्ररोचिष्णुकटकश्रेणिशोभिताः ।
विराजन्ति विभोः पुत्राः पादा इव गिरीशितुः ॥४७॥ $$ "अथैकदा समुन्मील्य चक्षुरान्तरमात्मनः ।
विभुळभावयद् दुःखवेष्टितं भवचेष्टितम् ॥४८॥ गतसारेऽत्र संसारे सुखभ्रान्ति शरीरिणाम् । लालापानमिवाङ्गष्ठे बालानां स्तन्यविभ्रमः ॥४९॥ उत्पद्यन्ते विपद्यन्ते तद्रसास्वादसादराः । शरीरिणोऽत्र संसारे कृमयो गोमये यथा ॥५०॥ लोकः परिचितद्वेषी नवेच्छश्चेत्यहो ! मृषा । यद् भवे न विरज्येत न रज्येतापुनर्भवे ॥५१॥ दुःखात्मनि भवे सक्तां शलभा इव दीपके । न कल्याणे तु वैकल्यादङ्गिनोऽमी सुखात्मनि ॥५२॥ सरस्तोयमिवास्थास्नु भवसौख्यमुपाधिजम् । निरुपाधि शिरानीरमिव मुक्तिसुखं स्थिरम् ॥५३॥ तदाश्रित्य व्रतं पारवत्व भवनीरधेः । मोक्षं यामि जनोऽप्येष यथा मामनुवर्तते" ॥५४॥ अत्रान्तरेऽन्तरुद्भूतालोको लोकान्तिकैः सुरैः । व्यज्ञप्यतेति कल्पज्ञैः समयज्ञोऽपि स प्रभुः ॥५५॥ अवसर्पिण्यामिहाज्ञानतम:प्रकरभास्कर ! । राज्यवत् प्रथमं नाथ ! धर्मतीर्थं प्रवर्तय ॥५६॥ इति विज्ञप्य यातेषु तदा तेषु जगत्पतिः । भरतं बाहुबल्यादियुतं सुतमजूहवत् ॥५७॥
15