SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रतिपत्तिद्वारम्] [१३ तत्र व्रतानि अहिंसानृतास्तेयब्रह्मचर्यापरिग्रहनामानि पञ्च । श्रमणधर्मस्तु क्षान्ति- . मार्दवार्जवमुक्ततप:संयमसत्यशौचाकिञ्चन्यब्रह्मचर्यादभेदैर्दशधा । अन्यच्च पञ्चाश्रवाद् विरमणम्, पञ्चेन्द्रियनिग्रहः, कषायजयः, दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः वैयावृत्त्यं त्वाचार्योपाध्यापतपस्विशैक्षकग्लानकुलगणसङ्घसाधुसमनोज्ञेषु शुश्रूषाभेदैर्दशधा । अपरं च - "वसहिकहनिसिज्जिदियकुटुंतरपुव्वकीलियपणीए । . अइमायाहारविभूसणाइं नव बंभचेरगुत्तीओ" ॥ [सं.प्र./११५६] ज्ञानादित्रिकं तु विदितम् । तपस्तु बाह्याभ्यन्तरषट्पडभेदैर्द्वादशधा, यथा - "अणसणमूणोयरिया वित्तिसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ" ॥ [सं.प्र./१२६५] . "पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अभितरओ तवो होई" ॥ [सं.प्र./१२६६] अपि च क्रोधादीनां चतुर्णां कषायाणां निग्रहः क्रोधनिग्रहः । अत्र शाकपार्थिवादिदर्शनाद् मध्यमपदलोपी समास इति संपिण्डितं चरणं सप्ततिधा । "पिंडविसोही समिई भावणा पडिमा य इंदियनिरोहो । पडिलेहणगुत्तीओ अभिग्गहा चेव करणं तु" ॥ [सं.प्र./७३७] तत्र पिण्डादीनां चतुर्णा पिण्डवस्त्रशय्यापात्राणां विशिष्टा शुद्धिः पिण्डविशुद्धिः, यदाहुः - "पिंडं वत्थं च सेज्जं च चउत्थं पायमेव य ।। अकप्पियं न गिहिज्जा पडिगाहिज्ज कप्पियं" ॥ [द.वै./६/४८] 20 15 १. वसतिकथानिषद्येन्द्रियकुड्यान्तरपूर्वक्रीडितप्रणीतम्। अतिमायाहारविभूषणानि नव ब्रह्मचर्यगुप्तयः॥ . २. अनशनमूनोदरिता वृत्तिसंक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्यं तपो भवति । प्रायश्चितं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि चाभ्यन्तरं तपो भवति ॥ ३. पिण्डविशुद्धिः समितिर्भावना प्रतिमा चेन्द्रियनिरोधः । प्रतिलेखनगुप्ती अभिग्रहाश्चैव करणं तु ।। ४. पिण्डं वस्त्रं च शय्यां च चतुर्थं पात्रमेव च । अकल्पितं न गृह्णीयात् परिगृह्णीयात् कल्पितम् ।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy