SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे नन्दिषेणकथा] निषिद्धः स्वामिनापीति रभसेन भृशायितः । प्रपेदे स परिव्रज्यां तत्पादकमलान्तिके" ॥१२॥ अथ षष्ठाष्टमादीनि तप्यमानस्तपांसि सः। व्यहार्षीत् प्रभुणा साकं द्रोणाकरपुरादिषु ॥१३॥ जपन् सिद्धान्तमनिशं सिद्धाकर्षणमन्त्रवत् । बिभीषिका इवासह्यान् सैष सेहे परीषहान् ॥१४॥ सङ्कटादिव निःसर्तुं स भोग्यफलकर्मणः । तपोभिः प्रतनूचक्रे स्वतनूमतनूद्यमः ॥१५।। महर्षिः सोऽन्यदैकाकी चिकीर्षुः षष्ठपारणम् । ययौ वेश्यागृहे धर्मलाभवाचमुवाच च ॥१६।। न नोऽर्थो धर्मलाभेन द्रव्यलाभोऽस्तु केवलम् । इति प्रत्याह तं वेश्या सोपहासविकारयुक् ॥१७॥ किं मां हन्त वराकीयं हसतीति विचिन्त्य सः । कृष्ट्वा नीव्रतृणं लब्ध्या रत्नराशिमपातयत् ॥१८॥ द्रव्यलाभोऽयमित्युक्त्वा स तस्माद्ववले गृहात् । ससम्भ्रमं तमभ्येत्य सापि वेश्येदमभ्यधात् ॥१९॥ अवक्रयाधमाँ मामाधाय त्वं क्व यास्यसि ? । नदीव रसपूर्णा यदलद्ध्याहं पुरस्तव ॥२०॥ तपःकष्टमिदं मुञ्च भुक्ष्व भोगान् मया सह । त्यक्ष्यामि सर्वथा प्राणान् प्राणनाथाहमन्यथा ॥२१॥ भूयो भूयस्तयेत्युक्तो भोगान्भोगान्विदन्नपि । भोग्यकर्मवशात् तस्या सोऽनुमेने वचस्ततः ।।२२।। शश्वद्दशाधिकान् वापि बोधयिष्यामि नो यदि । तदादास्ये पुनर्दीक्षां प्रतिज्ञामिति चाकृत ॥२३।। 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy