________________
३११]
गुणानुमोदनाद्वारे पुण्डरीककथा] अथ पुण्डरीको यथा - $$ जम्बूद्वीपे विदेहेऽस्ति विजयः पुष्कलावती।
नृपुण्डरीकिणी तत्रास्ते पुरी पुण्डरीकिणी ॥१॥ महापद्म इति श्रीणां सद्म तत्राभवद् नृपः । राज्ञी तस्य विनिर्धूतच्छद्मा पद्मावतीत्यभूत् ॥२॥ तयोश्च पुण्डरीकश्च कण्डरीकश्च विश्रुतौ । सुतावजनिषातां द्वौ क्षत्रधर्मभुजाविव ॥३॥ दत्त्वाथ पुण्डरीकाय राज्यं भूमिपतिस्ततः । स्थविराचार्यतः प्राप्य व्रतं तप्त्वा शिवं ययौ ॥४॥ त एव स्थविराचार्या विहरन्तोऽवनीतले । पुर्यां कालान्तरेणात्र समेत्य समवासरन् ॥५॥ श्रुत्वा तदागमं राजा कण्डरीकसमन्वितः । पुण्डरीको महाभूत्याभ्येत्य चैतानवन्दत ॥६॥ गुरवस्ते मुखद्वारविन्यस्तमुखवस्त्रिकाः । धर्मलाभाशिषं दत्त्वा तस्मै धर्ममुपादिशन् ॥७॥ "यौवनं वनजाक्षीणामपाङ्गप्रतिहस्तकम् । प्रेमापि पद्मिनीपत्रस्थितोकणसोदरम् ॥८॥ विषयाः किञ्च किम्पाकविपकफलसोदराः । वपुःश्रियोऽपि सन्ध्याभ्ररागाभियनयनाटिकाः ॥९॥ संपातदा सदा श्रेया संपदामपि संहतिः । तदपि प्राणिनामायुर्वायुसब्रह्मचारि च ॥१०॥ मत्वेति धर्म एवैको विवेकिभिरुपास्यते । स्वर्गपवर्गसम्पत्तिकारणं यः सनातनः ॥११॥ आत्मासौ पञ्चभिरपीन्द्रियै रागमुपागतैः । मोहतीक्ष्णैर्निहन्येत स्वस्वतृष्णासिधेनुभिः ॥१२॥