________________
10
15
20
[ २९४
[ विवेकमञ्जरी
प्रभवो जम्बूस्वामिकथायाम्, श्रीयकः स्थूलभद्रकथायाम्, उदायनस्त्वभयकुमारकथायामुपदिष्टः ॥ साम्प्रतं तु माषतुषो यथा
88 पुरे रत्नपुरे सूरिरासीद् गुणनिधिः पुरा । सङ्घमुख्यः श्रुतनिधिर्धर्मव्याख्याविशारदः ॥१॥ वैयावृत्त्यकरस्तस्य भवज्ञातेयबान्धवः । मुनिः प्रसन्ननामऽऽसीद् मूर्खतैकनिकेतनम् ॥२॥ स सूरिरेकदा श्रान्तो भूरिशो धर्मकर्मभिः । आगत्य भोजनादूर्ध्वं श्राद्धैर्व्याख्यामकार्यत ॥३॥ ततो विश्रान्तमालोक्य प्रसुप्तं पार्श्व एव सः । अप्रसन्नमनाः सूरिश्चिन्तयामासिवानिति ॥४॥ धन्योऽयं पुण्यवानस्मद्भ्राता मौर्व्यबलेन यः । निश्चिन्तः सुखमेवास्ते स्वैरशायी दिवानिशम् ॥५॥ वयं तु पाठवैगुण्यात् क्रीडाशुकवदन्वहम् । आबाधस्थास्त एवैके लापयामो नवैर्नवैः ||६|| दुर्ध्यानेनामुना कर्म ज्ञानावरणमर्जितम् । अनालोच्याप्रतिक्रम्य मृत्वा सूरिः सुरोऽभवत् ॥७॥ धन्योऽयं पुण्यवान् सूरिः प्रकाशयति यः श्रुतम् । इति ध्यानक्षतज्ञानावरणोऽस्य तु बान्धवः ॥८॥ मृत्वा स्वर्गमगाद् भोगान् भुक्त्वा तस्मादपि च्युतः । नगरे श्रीपुरे जज्ञे श्रीपतेर्वणिजः सुतः ||९|| युग्मम् ॥ धन्य इत्याख्या सैष व्रतेच्छुः शैशवादपि । क्रमेण संयमं प्राप्य सूरिः श्रुतधरोऽभवत् ॥१०॥
सूरिदेवोऽपि स च्युत्वा सज्जनाख्यो वणिक्सुतः । भूत्वा भेजे प्रबुद्धः सन् धन्याचार्यान्तिके व्रतम् ॥११॥