SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ [२८२ [विवेकमञ्जरी इत्युक्तः प्रियमित्रेण विलक्षवदनस्ततः । वसुदत्तो निजं धाम स गत्वेदमचिन्तयत् ॥४९॥ हतको नागदत्तोऽयं यावत्तावदियं न मे । तच्छले पातयित्वैनं मारयामि नृपाज्ञया ॥५०॥ चिन्तयित्वेत्यसौ दुष्टो नागदत्तं निशुम्भितुम् । छलानि मृगयामास स्वयमेव दिवानिशम् ॥५१|| बाह्यालीतो निवृत्तस्यान्येधुरुधानवर्त्मनि । पपात नृपतेः कर्णात् कुण्डलं वाजिवल्गनात् ॥५२॥ तद् विवेद न भूपालस्तदाश्वकीडयाकुलः । सेनारजोऽन्धितैरन्यैरपि तन्न विलोकितम् ॥५३॥ प्रासादमागतो भाण्डागारिकाय समर्पयन् । भूषणानि नृपोऽज्ञासीत् पतितं क्वापि कुण्डलम् ॥५४।। वसुदत्तमथादिक्षत् कुण्डलं येन केन मे। . गृहीतं तत्परिज्ञाय मत्पुत्रमपि शिक्षयः ॥५५॥ देव ! प्रमाणमादेश इत्युदीर्य निरीय च । असौ गवेषयामास स्वयमन्यैश्च कुण्डलम् ॥५६॥ इतश्च नागदत्तोऽपि कायोत्सर्गविधित्सया । नगर्या निर्ययौ सायं सहस्राम्रवणं प्रति ॥५७|| अग्रेऽगाद् नागदत्तश्च वसुदत्तश्च पृष्ठतः । खिल्लि-बिल्वसमायोगः सोऽयं विधिकृतो हहा ! ।।५८॥ दृष्ट्वैवाशकुनं मार्गाद् नागदत्तो न्यवर्तत । दृष्टोऽयं वसुदत्तेन वृक्षान्तरितवर्मणा ॥५९॥ नागदत्तः पथान्येन सहस्राम्रवणं गतः । । तस्थौ प्रतिमया चित्ते धर्मध्यानपरायणः ॥६०॥ -15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy