________________
[२७४
ज
[विवेकमञ्जरी यशोभद्रः शय्यम्भवकथायां वक्ष्यते । भद्रबाहुर्वज्रस्वामिकथायामुक्तः । अथातिमुक्तको यथा -- ___ पोलासपुरमित्यस्ति पुरं पुष्कलवैभवम् ।
तत्रासीद् विजयोर्जस्वी विजयो नाम पार्थिवः ॥१॥ श्रीदेवीति प्रिया तस्य सिंहस्वप्नेन सूचितम् । असूत सुतमुद्युक्तमतिमुक्तकसज्ञितम् ।।२।। तत्रान्यदा पुरेऽभ्येत्य श्रीवीरः समवासरत् । गौतमस्तु विवेशान्तविहर्तुं गणभृद्वरः ॥३॥ क्रीडन्नासीत्तदा दासीदासैरनुगतः पथि । क्रमाष्टवर्षदेशीयो राजपुत्रोऽतिमुक्तकः ॥४॥ स गौतमं समायान्तं वीक्ष्य चन्द्रं चकोरवत् । हृष्टोऽभिसृत्य नत्वा च जगादेति कृताञ्जलिः ।।५।। के यूयं भगवन्नत्र कथं विचरथोच्यताम् ।। अथ स्वामी जगौ स्मित्वा कुमारं सुकुमारगीः ॥६॥ देवानुप्रिय ! निर्ग्रन्था वयं श्रमणलिङ्गिनः । भिक्षार्थं विचरामोऽत्र पुरे पोलासनामनि ॥७॥ ततोऽतिमुक्तकः प्राह भिक्षां वो दापयाम्यहम् । इति स्वाम्यङ्गलीलग्नः स्वमगारमगाच्च सः ॥८॥ श्रीदेवी गौतमं वीक्ष्यातिमुक्तकसमन्वितम् । हृष्टाऽभ्येत्य प्रणम्यान्नपानीयैः प्रत्यलाभयत् ।।९।। निर्यान्तमथ साकूतं कुमारः प्राह गौतमम् । भगवन् । वसतौ कस्यां यूयं वसत कथ्यताम् ॥१०॥ स्वामी जगाद् देवानुप्रिय ! धर्मगुरुर्मम । श्रीवीरो यत्र समवसृतोऽस्ति नगराद् बहिः ॥११॥