________________
२६५]
गुणानुमोदनाद्वारे विष्णुकुमारकथा ]
क्रोधं प्रभो संहर यन्निमित्तमयं कृतोऽसौ नमुचिनिरस्तः । कृतेऽन्नपाके स्वयमात्मनीनैः किं स्वाश्रयाग्निः प्रशमं न नेयः ? ॥७४॥ क्रोधः प्रसूतत्रिजगद्विरोधः क्रोधः कृतापत्प्रकरप्रबोधः । क्रोधः शिवाद्वन्यजनैकरोधः क्रोधः प्रणेयः कृतिभिस्ततोऽधः ॥७५॥ इत्यम्बरे शम्बधराङ्गनाभिः पृथ्व्यां च सङ्घन महीभुजा च । कथङ्कथञ्चित् प्रतिबोध्यमानः सस्मार स स्वं कुपितः कुमारः ॥७६।। संहृत्य चाशु स्वतनोः प्रवृद्धि रुषः प्रवृद्धिं च विधूय मूलात् । प्राप्तः स्वभावं क्षमितो लगित्वा पादे महापद्मनरेश्वरेण ॥७७॥ श्रीसंघदौःस्थ्यमिति विष्णुकुमार एष, भित्त्वा क्रमेण निजकर्मबलं च जित्वा । उत्पन्नकेवलकलाकलितः प्रबोध्य विश्वम्भरां शिवगतिं बिभराम्बभूव ॥७८॥
॥ इति श्रीविष्णुकुमारकथा ॥
१. क. कीत्र्यै समर्प्य स्वं ।