________________
5
10
15
20
[ २६०
मत्वा क्षुद्रममुं क्षुल्लकेन केनापि सूरयः । तदा पराजयन्ते स्म वादिना प्रतिवादिनम् ॥१४॥ सोऽथ यातः समं राज्ञा रजन्यां तु समत्सरः । छन्नं प्राप्तो मुनीन् हन्तुं वनदेव्या न्यबध्यत ॥१५॥ प्रातर्लोकेन राज्ञा च ज्ञातो मुनिषु मत्सरी । असामान्यं विमान्याथ नमुचिर्निरवास्यत ॥१६॥ हस्तिनापुरमायातः स विलक्षो द्विजाधमः । महापद्मस्य तत्रापि युवराजस्य मन्त्र्यभूत् ||१७|| इतः सिंहबलोऽवर्थनामा सीमालभूपतिः । भञ्जं भञ्जं महापद्मवेशं दुर्गे विशत्यसौ ॥१८॥ महापद्मेन रुष्टेन ततो नमुचिरौच्यत ।
मन्त्रिन् ! सिंहबलध्वंसोपायं कमपि विन्दसि ? ॥१९॥ वेद्येवेति प्रतिज्ञाय सोऽपि सिंहबलं गतः । भङ्क्त्वा तद्दुर्गमचिरात्तं बद्ध्वा च समानयत् ॥२०॥ वरं वृण्वत्यभाषिष्ट महापद्मः प्रसद्य तम् । यदा याचे तदा देय इत्यूचे नमुचिश्च तम् ॥२१॥ यौवराज्यं महापद्मे पालयत्येतदम्बया । ज्वालयाविष्कृतो जैनरथेनात्ममनोरथः ॥२२॥ लक्ष्मीरपि सपत्न्यस्याः स्पर्धया ब्रह्मणो रथः । कारयित्वा भ्रमयितुं तत्पूर्वमुपचक्रमे ॥२३॥ तन्मत्वाऽभ्यग्रहीज्ज्वाला समक्षं भूपतेरिति । नाग्रेऽर्हद्रथयात्रा चेत् तत्परत्र ममाशनम् ॥२४॥ रथयात्रे नृपेणाथ न्यषेत्सातामुभे अपि ।
द्वयोः का हरनिमील्येतोन्मील्येतापि च का यतः ? ॥२५॥
[ विवेकमञ्जरी