SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५४] [विवेकमञ्जरी तदिदं राज्यवल्लब्ध्वा मानुष्यं दिनपञ्चकम् । तत् करिष्याम्यहं यद् न कृतं जन्मशतैरपि ॥१२९॥ "अथो कनकवत्यूचे त्वमपूर्वं करिष्यसि । हित्वा हस्तगतं भोज्यं कूर्परान्तं विलेक्ष्यसि ॥१३०।। "कुमारोऽथ जगौ गौरि ! क्रान्त्वा लोकैः शुकैरिव । त्रुट्यमाना भ्रमं भोगाः स्यन्ति शाल्मलिकोशवत् ॥१३१॥ भवशैलेऽत्र पुंयोनिविवराद् विषयान्धलाः । क्षिप्यन्ते दुर्गतौ प्राप्ता अपि सिद्धरसाप्तये ॥१३२॥ तदहं युवतीलोभं व्यतीत्य सुगुरोगिरा । कल्याणसिद्धये सिद्धरसायैवास्मि सादरः" ॥१३३॥ "जयश्रीरित्यथावादीद् नाथ ! साधूदितं त्वया । परं परोपकारो यः स पुण्यखनिरिष्यते ।।१३४|| त्वं द्विषन्नपि तद् भोगान् भजास्मत्कृतये कियत् । धनो जनोपकाराय क्षाराम्भोऽपि न किं पिबेत् ? ॥१३५।। विषं तदपि तत्प्रत्तं सुधायेत यथाऽङ्गिनाम् । तथा नः श्रेयसे भोगास्तेऽपि योगात्तव प्रभो ! ॥१३६।। तत् कृपालो ! कृपां कृत्वा स्वसङ्गमसुखामृतैः । सञ्जीवयाऽस्मान्कामार्ता वल्लरीरिव नीरदः" ॥१३७।। "जम्बूरथाह तां कामहतां स महतां वरः । असन्निर्बन्धमाधातुमलं कमललोचने ! ॥१३८॥ भोगो युष्माकमस्माकमुभयेषाममी विषम् । यच्चतुर्गतिकस्तेभ्यो भवो भवति भीषणः ॥१३९॥ तिर्यग्नारकदुर्देवनृतादुःखस्य का कथा ? । एकशोऽपि विपद् घोरा गर्भवासे निशम्यताम् ॥१४०॥ 15 .
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy