SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ [२४७ गुणानुमोदनाद्वारे जम्बूस्वामिकथा] नभसेना च कनकश्रीश्च कनकवत्यथ । जयश्रीरिति चाभूवंश्चतस्रोऽन्याः कुमारिकाः ॥४५॥ अष्टौ मूर्त्यन्तराणीव महिषीणां बिडौजसः । ताः पुरेऽत्र बभुर्बालाः सिद्धयोऽष्टाविवाथवा ॥४६।। दातुं ताः पितृभिः जम्बूस्वामिने ऋषभोऽर्थितः । सर्वे मेने न-कस्तुल्यगुणसङ्गाय कौतुकी ? ॥४७।। तदानीं च महामोहतमोहतिदिवाकरः । श्रीसुधर्मा समायासीद् वैभारगिरिकाननम् ॥४८॥ . ... श्रुते तस्मिन् समायाते निर्यातं नगरादथ । जनैर्भृङ्गैरिवाम्भोजादोजायितविराजितैः ॥४९।। श्रीसुधर्मगणाधीशं नमस्कर्तुं समागमत् । तदा जम्बूकुमारोऽपि समारोपितसंमदः ॥५०॥ संसारसागरोत्तारतरीविरमरीणयां । गिरा गुरुश्चकारास्य पुरस्ताद् धर्मदेशनाम् ॥५१॥ जम्बूरम्बूज्ज्वलां वाचं गुरोः संवरदात्तदा । पीत्वा रोमाञ्चरूपेणाभितः पल्लवितोऽभवत् ॥५२॥ नत्वा मुनीन्द्रमुन्निद्रव्रतग्रहमहोद्यमः । जगामाऽयममायः सन् सदनं मदनं द्विषन् ॥५३॥ सत्वरः पितरौ नत्वा जम्बूः कम्बूज्ज्वलस्मितः । निजगादाऽयमादाय व्रतं प्रीतो भवाम्यहम् ॥५४॥ इत्याकर्ण्य ततः कर्णकालकूटोत्कटं वचः । सुतं व्रतनिषेधाय पितरावूचतुस्तराम् ॥५५।। "एकस्त्वमावयोर्दीपो भानु नभसोरिव । त्वां विना वत्स ! नितमां तमांस्यभिभवन्ति नौ ॥५६।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy